Book Title: Nandanvan Kalpataru 2019 06 SrNo 42
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
अहिंसायाश्च संस्कारा अद्यत्वेऽपि पत्तननगरजनेषु दरीदृश्यन्ते ।
विद्या-कला-संस्कार-समृद्धि-धर्मपालन-शौर्य-पराक्रम-परोपकार-जीवदयादिगुणैः समृद्धा अस्य नगरस्य नागरिका उदाराः सुकृतनिरताश्चाऽऽसन् ।
नगरमिदं स्थापनादिनादारभ्य षट्शतानि वर्षाणि यावत् तु गूर्जरदेशस्य राजधानी समासीत् । महम्मदगझनी-अल्लाउद्दीनखीलजीप्रभृतिभिश्च म्लेच्छैर्वारं वारमाक्रान्तं भज्यमानं चाऽप्येतन्नगरं पुनः पुनः समुत्थानं प्राप्नोत्, समृद्धिं च पुनः पुनरप्यवाप्नोत्, विद्या-कला-संस्कार-धर्मादीनि तत्त्वानि च नैव कदाऽपि व्यलीयन्ताऽस्मान्नगरात् ।
ततश्चाऽद्यपर्यन्तमपि नगरमेतत् शतशो देवालयैर्मण्डितं, विविधशाखीयैर्विद्यावद्भिः पण्डितैरुपशोभितं प्राचीनस्थापत्यैश्चेतिहासं स्मारयत् राराजतेतराम् । अस्य नगरस्याऽन्यदपि वैशिष्टयमुल्लिख्य विरमामि । पाटण- पटोळु - इति नाम्ना जगद्विख्याता कौशेयमयी पट्टशाटिकाऽद्यत्वेऽप्यत्रस्थैः परम्परागततन्तुवायपरिवारैः प्राचीनपद्धत्यैव निर्मीयन्ते । एकां शाटिकां निर्मातुं प्रायः षण्मासमितः काल आवश्यकः, मूल्यं चाऽस्याः पञ्चषलक्षरूप्यकमितं भवति ।
तदेतादृशं विशिष्टं पत्तननगरमवश्यं दर्शनीयं पर्यटनीयं च वर्तते । तत्रत्यं वातावरणमासेवनीयं वर्तते, तस्य इतिहासश्च पठनीयो वर्तते । यदि भवन्त उत्सुकास्तदाऽवश्यं समागच्छन्तु, स्वागतं भवताम् ।

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136