Book Title: Nandanvan Kalpataru 2019 06 SrNo 42
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 43
________________ अस्ति किल गूर्जरराज्ये धार्मिक-सामाजिकार्थिकौद्योगिक-कलाशिक्षणादिक्षेत्रेष्वग्रेसरं प्राचीनपरम्पराणामाधुनिकरीतीनां च समन्वयस्थानरूपं वाणिज्यक्षेत्रे च नितरामग्रियमैतिहासिकं चाऽहमदाबादनाम महानगरम् । वैक्रमीये विंशतितमे शतके महानगरमिदमासीत् खलु जैनधर्मावलम्बिनां मुख्यं नगरम् । सहस्रशो जैनपरिवारा अत्र वसन्ति स्म । अस्य महानगरस्य प्रत्येकं प्रतोलिकायां जिनमन्दिराणि, पौषधशालाः, उपाश्रयाः, ज्ञानशालाः - इत्यादीनि धर्मस्थानान्यभवन् । प्रत्येकं विपणौ जैनश्रेष्ठिनामेव प्रामुख्यं, व्यापार-व्यवहार-वाणिज्यानि च प्रायशो जैनवणिजामेव हस्तगतान्यासन् । वस्त्रोद्योगः समग्रोऽपि जैनश्रेष्ठिभिरेव प्रवर्त्यते स्म । विशालैर्वस्त्रवयनयन्त्रालयैर्वेष्टितं महानगरमिदं भारतस्य 'मान्चेस्टर' नगरमिति विश्रुतमासीत् । नगरे प्रवर्तमानाः सर्वा अपि शिक्षणसंस्थाः प्रायशो जैनश्रेष्ठिनां दानप्रवाहेणैव स्पन्दमाना आसन् । राजकीयक्षेत्रेऽपि महानगरे जैनश्रेष्ठिनामेव प्रभावो दरीदृश्यते स्म । एतस्योदाहरणद्वयमेव पश्येम – 'सरदार' इति नाम्ना विश्रुतस्य श्रेष्ठिनो लालभाई-दलपतभाई-इत्यस्याऽभिप्रायस्तादात्विकेनाऽऽङ्ग्लसर्वकारीयवाइसरोय-पदस्थितेनाऽपि गृह्यते स्म, मन्यते स्म चाऽपि । एवमेव तदीयपुत्रस्य कस्तूरभाई-लालभाईइत्यस्य गाढः सम्पर्को महात्मगान्धि-सरदारपटेल-नहेरु-इन्दिरागान्धि-प्रमुखै राजनेतृभिः सहाऽऽसीत् । एतादृशैजैनश्रेष्ठिभिश्चाऽत्र महानगरे प्रायः सर्वत्र क्षेत्रेषु निजधनं दानरूपेण प्रवाह्य महानगरमिदं सुन्दरं रमणीयं च विहितमासीत् । ईदृशोऽस्य महानगरस्य हृदयस्थानभूते माणेकचोक-इति स्थाने सङ्ख्याताः प्रतोलिकाः सन्ति । तास्वन्यतमाऽस्ति क्षेत्रपालप्रतोलिका । तस्यां प्रतोलिकायां श्रेष्ठिश्रीफत्तेचंद-नानचंद-कीनखाबवाला - इति विश्रुतं कुटुम्बमेकं परिवसति स्म । कुटुम्बमिदं नितान्तं जिनधर्मानुरागि श्रमणगणचरणसेवि चाऽऽसीत् । कुटुम्बमुख्यः श्रेष्ठी श्रीअमीचंदभाई-नामा परमश्रद्धावान् श्रावक आसीत्, तत्पत्नी च धर्मपरायणा गुणगणालङ्कृता चम्पाबेन - इति श्राविकाऽऽसीत् । तयोश्च द्वौ पुत्रौ - रतिलालः, हिंमतलालश्च । द्वावपि संस्कारवन्तौ विद्यावन्तौ विनयादिगुणवन्तौ च ।। __ पूर्वमपि पुण्यशालिनोरनयोर्दम्पत्योः पुराकृतं किञ्चनोत्कृष्टं पुण्यमुदयकालप्राप्तमिव वैक्रमे १९५७तमे वर्षे पौषकृष्णप्रतिपदि शुभलक्षणोपेतः सर्वस्वजनमनआनन्दकारी पुत्रो जनिमलभत । तस्य जन्मसमयं तत्कालीनग्रहचारं योगांश्चाऽन्यान् संवीक्ष्य ज्योतिषिकैः कथितं यद् - 'बालकस्याऽस्य जन्मकुण्डलिकायामत्युत्तमो ग्रहयोगो वर्तते, तथा जन्मसमयोऽप्यस्य श्रेष्ठोऽतो बालोऽयं कुलदीपकस्तु भविष्यत्येव जगदुपकारकोऽपि भविष्यति' । तस्य च बालस्य परमकान्तिमत्त्वात् कान्तिलाल इति नाम कृतम् । ज्येष्ठभ्रातृभ्यामन्येन च स्वजनवर्गेण लाल्यमानस्य पितृभ्यां च पाल्यमानस्य कान्तिलालस्य शैशवमतिक्रान्तं, व्यावहारिकशिक्षणार्थं च स मनसुखभाई-प्रतोलिकायां विद्यमानायां जैनशालायां प्रवेशितः । यद्यपि स तत्राऽक्षरज्ञानमन्यच्च पठन-लेखनादिकं शिक्षितवान्, तथाऽपि तच्छिक्षणमधिकं प्राप्तुं तस्योत्साह नाऽऽसीत् । अतः शालागमने स मन्दादरोऽभवत् । ३२

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136