Book Title: Nandanvan Kalpataru 2019 06 SrNo 42
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 46
________________ किञ्च, मुनेः कस्तूरविजयस्य दीक्षाया सप्ताष्टवर्षानन्तरमेव गुरुकृपायाः फलत्वेन यथाकालं विविधा मुमुक्षवः समागत्य तत्पावें दीक्षां गृहीत्वा तच्छिष्याः समभवन् । तत्र प्रथम आसीत् मुनियशोभद्रविजयः । तदनु मुनिकुमुद्रचन्द्रविजयः, मुनिचन्द्रोदयविजयः, मुनिकीर्तिचन्द्रविजयः, अन्येऽपि च नव मुनयस्तस्य शिष्यत्वं प्राप्ताः । तथा शिष्याणां प्रशिष्याणां चाऽपि परिवारो बह्ववर्धत, येषु मुनिशुभङ्करविजयः, मुनिसूर्योदयविजयः, मुनिजयचन्द्रविजयः, मुनिप्रबोधचन्द्रविजयः, मुनिअजितचन्द्रविजयः, मुनिशीलचन्द्रविजयः, मुनिसोमचन्द्रविजयः - इत्येते मुख्यास्तथा तेषामपि परिवारे बहवो मुनिवराः सञ्जाताः । (अत्र ये उल्लिखिता मुनयस्ते सर्वेऽपि मुनेः कस्तूरविजयस्य सकाशादेव ज्ञानार्जनं कृत्वा श्रुतविदो भूत्वा आचार्यपदसमलङ्कृता अभवन् । अयमपि चाऽऽलेखकस्तदीय एव परिवारे दीक्षितोऽस्ति ।) एवमेव बहवः पण्डिताः श्रावका गृहस्थाश्चाऽपि तत्सकाशादधीत्य शास्त्रविदः सञ्जाताः । अथ च, व्याकरण-संस्कृतभाषा-साहित्य-तर्क-दर्शनादिषु पारङ्गता बहवः पण्डिता आसन् सन्ति च, सिद्धान्त-कर्मसाहित्यादिष्वपि प्रभूताः विद्वांसः समभवन् विद्यन्ते चाऽपि, किन्तु सनियुक्ति-चूर्णिभाष्या जैनागमाः प्रभूतानि प्रकरणसूत्राणि - इत्यादिकं भूयिष्ठं जैनसाहित्यं यया भाषया निबद्धमस्ति सा प्राकृतभाषाऽद्यत्वेऽत्यल्पतयाऽधीयते, विद्वज्जगति च सा भाषा भृशमुपेक्षास्पदं सञ्जाताऽस्ति । एतत्तथ्यं मनसिकृत्य मुनिकस्तूरविजयेनाऽन्यस्य सर्वविधस्य साहित्यस्याऽध्ययनेन सह प्राकृतभाषाशिक्षणार्थं तदात्मसात्करणार्थं च कठोरपरिश्रमः कृतः । एतस्य फलत्वेन समग्रेऽपि जैनसमाजे विद्वत्समवाये च तस्य प्रसिद्धिः प्राकृतवाग्-विशारदत्वेन सञ्जाताः । प्राकृतसाहित्यविषयाः सर्वा अपि समस्या मुनिकस्तूरविजय एव समाधास्यतीति सर्वत्र प्रसिद्धिर्जाता । राष्ट्रीयाणामन्ताराष्ट्रीयाणां च नैकेषां विदुषां पृच्छास्पदं सोऽभवत् । तेन विरचिताः प्राकृतरूपमाला-प्राकृतविज्ञानपाठशाला-पाइयविन्नाणकहा-प्रमुखा ग्रन्थास्तु विश्वविद्यालयानां पाठ्यक्रमेष्वन्तर्भूताः सन्तोऽद्यत्वेऽपि विद्यार्थिनां प्राकृतभाषासाहित्यजगति प्रवेशद्वारायन्ते। एवमेवाऽन्येऽपि बहवो ग्रन्थास्तेन विरचिताः सम्पादिताः संशोधिताश्च प्राधान्येन प्राकृतभाषासाहित्यविषयास्तथाऽन्येऽपि संस्कृतादिसाहित्यविषयाः, ये विद्यार्थिनां विद्वज्जनानां च कृते समानतयोपकारकाः सञ्जाताः । एतदर्थं च तान् तादात्विकविद्वज्जनानामिवाऽद्यत्वेऽपि भूयांसो स्वदेशीया वैदेशिकाश्च विद्वांसः प्रशंसन्ति । एतादृशस्य मुनेः कस्तूरविजयस्य गुणवत्तां, ज्ञानभाजनतां, शिष्यादिपरिवारसम्पत्ति, लोकविश्रुततां चेत्यादिकां सर्वामपि बाह्याभ्यन्तरसमृद्धिमवलोक्य प्रसन्नैः पूज्यैः परमगुरुभिः शासनसम्राभिर्वैक्रमे २००१तमे वर्षे फाल्गुनकृष्णचतुर्थीदिने स आचार्यपदप्रदानेन समलङ्कृतः । इतः परमेते आचार्याः श्रीविजयकस्तूरसूरयः इत्यभिधाः समभवन् । आचार्यपदोपलब्ध्यनन्तरमपि तेषां निःस्पृहताऽनासक्तिः सारल्यं, निरभिमानता, गुरुसमर्पणं, ज्ञानार्जनप्रवृत्तिः, स्वाध्यायः - इत्यादयो गुणास्तु तथैवाऽवस्थिता इति तु न सत्यमपि तु वैशद्यं विस्तारं ३५

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136