Book Title: Nandanvan Kalpataru 2019 06 SrNo 42
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti
View full book text
________________
शासनसम्राजो भगवन्तो मेदपाटक(मेवाड)भूमिं प्रति विहर्तुं समुद्यता अभवन् । क्रमेण च विहृतास्ते । कान्तिलालोऽपि यथानुकूल्यं गुरुभगवतां विहारे यातायातं करोति स्म । तन्मनः सर्वत्यागं कर्तुं, श्रमणवेषं धर्तुं, गुरुचरणे चाऽऽजन्मोपासितुं नितरामुत्कण्ठितं वर्तते, किन्तु पित्रोः सकाशात् तदर्थमनुमतिर्लोहमयचणकचर्वणमिव दुर्लभाऽऽसीत् । वस्तुतस्तु 'दीक्षां ग्रहीतुमिच्छाम्यह'मिति पित्रोनिवेदनं कर्तुमपि सर्वथा दुःशकमासीत् । किन्तु दीक्षार्थं हृदयगतोत्कण्ठाऽपि तथा विवृद्धि प्राप्ता यथा तां धारयितुं स न शक्नोति स्म । अत एकदा स गृहे कमप्यनुक्त्वा पलायितः, मेदपाटकप्रदेशे च यत्र गुरुभगवन्तो विराजमाना आसन् तत्र प्राप्तः । सानुनयं सानुरोधं च गुरुभगवद्भयो विज्ञप्तिं कृत्वा, दीक्षादानार्थं चाऽनुकूलान् कृत्वा, वैक्रमे १९७६तमे संवति फाल्गुनकृष्णतृतीयादिने नावलीस्टेशनसमीपे गोधूमग्रामे तेन दीक्षा गृहीता । पन्यासश्रीविज्ञानविजयगणिनां शिष्यतया प्रथितस्य तस्य नाम - मुनिकस्तूरविजयः इति स्थापितम् ।।
दीक्षादिनादेवाऽऽरभ्य तेन गुरुचरणयोरात्मा तथा समर्पितो यथा स स्वीयामिच्छामनिच्छां वा, रुचिमरुचिं वा, अनुकूलतां प्रतिकूलतां वा सर्वथा न गणयति स्म । गुरुभगवतामिच्छां रुचिमानुकूल्यं चैव भगवदाज्ञामिव शिरस्यवधार्य तदनुरूपमेव प्रवर्तते स्म । तथैव दीक्षाग्रहणानन्तरमाजीवनं तेन गुरोः सन्निधावेवोषितं तत्सेवा च कृता । दिनमेकमपि स गुरूभगवद्भयो वियुक्तो न जातः ।
अपि च, पूज्याः श्रीविज्ञानविजयगणिवरा समस्तश्रुतविदो बुद्ध्या च चाणक्यनिभा आसन् । विषमपरिस्थितौ हि पूज्याः शासनसम्राजो भगवन्तस्तैः सहैव परामर्श कुर्वन्ति स्म । किन्तु, एते खलु सर्वथा निःस्पृहाः सन्तोषिणश्चाऽऽसन् । शिष्यान् कर्तुमपि तेषां स्पृहा नाऽऽसीत् । कस्तूरविजयस्य दीक्षाया अनन्तरं तैनिश्चितं यदितः परं न कोऽपि शिष्यतया स्वीकर्तव्यो मया । कस्तूरविजय एव मम कृते पर्याप्तः । तमेव श्रुत-विद्यासम्पन्नं कर्तुं परिश्रमः कर्तव्यो मया । तमेव शासनमान्यं, विद्वज्जनमूर्धन्यं, श्रुतपारगामिणं, लोकविश्रुतं च कर्तुं सर्वायासेन यतितव्यम्' । अतस्तैः कस्तूरविजयमध्यापयितुं सर्वविधाः प्रयत्नाः प्रारब्धाः।
इतश्च कस्तूरविजयस्य ज्ञानग्रहणक्षमता सीमिताऽऽसीत् । रुचिस्तु ततोऽप्यल्पीयस्यासीत् । तथाऽपि गुरुभगवतां हादिकी भावनामवबुध्य, स्वीयां सर्वामपि रुचिमरुचिं चाऽवगणय्य गुरुचरणयोरुपविश्य निरन्तरं तन्मार्गदर्शनानुसारं शास्त्राध्ययनार्थं यत्नान् कर्तुमारब्धः ।
गुरवोऽपि च तमध्यापयितुं सर्वानपि बाह्यव्यवहारान् त्यक्त्वा, प्रलोभनानि विमुच्य, जनसम्पर्काच्च दूरीभूय राजस्थानप्रदेशस्य विविधग्रामेषु विहृतवन्तस्तत्र च विजनेषु स्थानेषु स्थित्वा कस्तूरविजयं स्वयमध्यापितवन्तः, पण्डितानां यतिवर्याणां च सकाशात् शिक्षा ग्राहितवन्तः ।
___ एवं च कृते कस्तूरविजयस्य ज्ञानग्रहणक्षमता निष्ठा च तथा वृद्धिङ्गता यथा स सततं ज्ञानयोगनिरतः स्वाध्यायपरायणश्च सन् गच्छता कालेन परम आगमज्ञो गीतार्थश्च सञ्जातः । सततं ज्ञानार्जनपरिश्रमः, लोकसम्पर्कनिवृत्तिः, पूर्णज्ञाननिष्ठा, गभीरं वैराग्यं, निःस्पृहता, निष्कामा गुरुसेवा, गुरुसमर्पणभावश्चेत्यादिभिगुणैः परिपूर्णः स श्रुतपारगामी विद्वज्जनप्रच्छनीयश्च सञ्जातः ।
३४

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136