Book Title: Nandanvan Kalpataru 2019 06 SrNo 42
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 44
________________ इतश्च, गृहे पर्याप्तं धार्मिकवातावरणमासीत्, माता-पित्रोः संस्कारा अपि धर्ममया आसन्, विशेषेण च वयोवृद्धाः परमतपस्विनश्चाऽऽचार्यवर्याः श्रीविजयसिद्धिसूरीश्वराः (बापजी महाराज - इति ख्याताः) कान्तिलालस्य संसारसम्बन्धेन पितृव्या आसन्, उत्कृष्टतपोरता साध्वीश्रीशान्तिश्रीश्च तस्य पितृष्वसाऽऽसीत् । कान्तिलालश्च 'भट्ठीनी बारी'नामस्थले विद्यमाने वीरविजयोपाश्रये स्थितस्य वयःपर्यायोभयवृद्धस्य श्रीप्रतापविजयाख्यस्य ज्येष्ठसाधोः समीपं प्रत्यहं गत्वा तदाशिषो गृह्णाति स्म । एवं च तारुण्ये परितः संयमवतां साधूनां संसर्गात् तन्मनो वैराग्यवासितं सञ्जातम् । पूर्वजन्मस्वाराधितस्य विरक्तभावस्य संस्कारा उद्बुद्धाः । षोडशे वयसि च तस्य सकलः संसारस्त्याज्यतया प्रतिभाति स्म । एतावता चाऽहमदाबादनगरस्य केन्द्रस्थिताया रत्नप्रतोलिकायाः (रतनपोल) समीपे पञ्जरप्रतोलिकायां (पांजरापोल) शासनसम्राजः पूज्याचार्यभगवन्नः श्रीविजयनेमिसूरीश्वराः सशिष्यपरिवाराः समागताः । विक्रमाद् विंशतितमे शतके सुविहितयोगोद्वहनाः सकलविधिविधायकाः सूरिमन्त्रसमाराधकाश्च सर्वप्रथमा आचार्या एते ज्ञानिनः प्रभावका आराधकाश्चाऽऽसन् । अपि च, यौवनं वयः, विशालः शिष्यपरिवारः, निष्कल्मषं शीलतेजः, अखण्डः स्वाध्यायः, निःशब्दं तपः, हृदयं धर्मरसेनाऽभिषिञ्चती प्रवचनधारा, सरलं धर्मव्यवहारं शिक्षयन्ती प्रवचनशैली, विद्वत्तासत्त्वेऽपि निर्भारो व्यवहारः, एतैरेतादृशैश्चाऽन्यैर्बहुभिर्विशेषैः सह जीर्णतीर्थानामुद्धारः, ज्ञानकोशानां स्थापनं, योग्यजीवेभ्यो दीक्षादानं, शिष्याणां च ज्ञान-क्रियाव्यवहाराद्यैर्यथावच्छिक्षणं, यात्रासङ्घप्रेरणं, ग्रन्थसर्जनं, प्राचीनसाहित्यप्रकाशनं, ज्ञात्यादिकलहानां समाधानमित्याद्यैर्वैशिष्ट्यैस्तेषां यशः सर्वत्र प्रसारं प्राप्तमासीत् । अहमदाबादनगरस्य जनताऽपि तेषां गुणपरिमलेन प्रमुदिता तद्गुणरसपानेनोल्लसिता चाऽऽसीत् । एष प्रमोद उल्लासश्च कान्तिलालमप्याकृष्टवन्तौ । सोऽपि च गुरुभगवतां वन्दनार्थं सान्निध्यप्राप्त्यर्थं, तदाशी:प्रापणार्थं च तत्र गन्तुं प्रवृत्तः । वैराग्यसंस्कारैः प्लावितान्तःकरणस्य तस्य स्थैर्यप्राप्त्यै समुचितं स्थानमेकं प्राप्तमिव । पञ्जरप्रतोलिकायां कान्तिलालस्य गमनागमनं वृद्धिङ्गतम् । तत्रस्थैः साधुभिः सह तस्य सम्पर्कः परिचयश्चाऽपि वृद्धि प्रापत् । अन्यान्यैः साधुभिः परिचयं कुर्वन् स एकदा पंन्यासप्रवराणां श्रीविज्ञानविजयगणिवराणां सम्पर्कमवाप्नोत् । सर्वथा निर्मलं निर्देशं निर्दम्भं सौम्यं च व्यक्तित्वमासीत् तेषाम् । कान्तिलालश्चाऽपि निर्मलः सरलः शान्तश्चाऽऽसीत् । अतः प्रथमपरिचयादेव द्वयोरपि परस्परं स्नेहः प्रादुर्भूतः । ततश्च, कान्तिलालः प्रत्यहं तान् वन्दितुं, तैः सह धर्मचर्यां कर्तुं, वैराग्यरसामा॑न् संलापान् श्रोतुं, धार्मिकी शिक्षा ग्रहीतुं च समायाति स्म । एवं कुर्वता परिचयो गाढोऽभवत्, मनसि वैराग्यरङ्गो दृढोऽभवत्, संसारत्यागार्थं च निश्चला मतिरभवत् । सहैव, मनसैव तैन श्रीविज्ञानविजयगणिवरा गुरुपदे स्थापितास्तेभ्यो विज्ञप्तिरपि च कृता – 'शिष्यस्तेऽहं, शाधि मां त्वां प्रपन्नम्' - इति । इतश्च, समग्रां पृथिवीं जलार्दी कृत्वा ततो निर्मला जाताः शारदा वारिदा यथाऽञ्जसैव विलीयन्ते, तथैव शुभैर्योगैः क्रियानुष्ठानैः, ज्ञानवर्धकप्रवचनैश्च धर्मामृतं वर्षयित्वा चातुर्मास्यं च समाप्य सपरिवाराः ३३

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136