Book Title: Nandanvan Kalpataru 2019 06 SrNo 42
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 96
________________ २. गोगीतम् (वैद्युतिकं पुस्तकम् [e-book]) (कन्नडभाषया रचिताया "गोविन हाडु" इति रचनाया समच्छान्दसिको मुक्तः संस्कृतानुवादः) रचयिता विद्वान् डॉ. एस्. जगन्नाथः, मैसूरू uchyrch: Shankarasanskritebooks गोगीतमिदं कन्नडभाषया केनचिदज्ञातकविना रचितस्य "गोविन हाडु" (गोर्गीतम्) - इति कृतेः कथावस्त्ववलम्ब्य तत्र तत्र च कानिचिदावश्यकानि परिवर्तनानि विधाय विदुषा श्रीएस्.जगन्नाथमहोदयेन विहितः संस्कृतानुवादः । मूलकृतौ यच्छन्द उपयुक्तं तदेव च्छन्दोऽनुवादकळ संस्कृतानुवादेऽपि प्रयुक्तमिति तु विशेषः । अस्यां कृतौ, पुण्यकोटिनाम्नी गौः अर्बुदनामकस्य व्याघ्रस्य क्षुधां निवारयितुं स्वप्राणान् हातुमुद्यता, तदा "ईदृशीं परोपकारकर्ती गां मारयितुमिष्टवानहम्" इति पश्चात्तापतप्तो व्याघ्रः स आत्मघातं करोति - इति कथावस्तु । मूलतोऽपि संशोधकात्मना श्रीजगन्नाथमहोदयेनाऽस्याः कृतेर्मूलरचनां तादृशीरन्याश्च रचना आश्रित्य सुविस्तृतं तुलनात्मकमध्ययनं कृतमस्ति प्रस्तावनायाम् । अतः कवित्वस्याऽनुवादकत्वस्य, तथा संशोधकत्वस्येति त्रयाणां तत्त्वानां संमीलनमत्र पुस्तके सहैव प्राप्यते - इत्ययं प्रमोदप्रदो विषयो जिज्ञासूनामभ्यासरतानां च कृते । __कृतिश्चेयं साक्षात्पुस्तकरूपेणाऽप्रकाश्य वैद्युतिकपुस्तक(e-book)रूपेण प्रकाशितेत्यपि च सर्वथोचितमेव पर्यावरणदृष्ट्या । यतः पुस्तके उपयुज्यमानः कागदोऽपि वृक्षाणां विनाशादेव प्राप्यते । अतो यथाशक्ति तद्रक्षणार्थं प्रयतितव्यमेवाऽस्माभिरिति भावनां मनसिकृत्यैव प्रवृत्तस्य श्रीएस्.जगन्नाथमहोदयस्य प्रयासोऽयं सर्वथा स्तुत्योऽनुकरणार्हश्च ।

Loading...

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136