Book Title: Nandanvan Kalpataru 2019 06 SrNo 42
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 30
________________ देहोपहारकुतपैः स्वपरोपतापैः कृत्वाध्वरेश्वरमिषं विदलन्मनीषाः । धमैषिणो य इह केचन मान्द्यभाज स्ते जातजीवितधियो विषमापिबन्ति ॥ अत्र यागानाम् अधर्मकारणत्वं कथितम् । यागमिषेण जीवहिंसां कुर्वाणा विषमास्वादयन्ति । स्वाहितं स्वयम् आचरन्तीति भावः । येऽन्यत्र मन्त्रमहिमेक्षणमुग्धबोधाः शर्वैषिणः पुनरतः शिवतां गृणन्ति । ते नावि तारणदृशो दृषदोऽवलम्ब्य दुष्पारमम्बुधिजलं परिलङ्घयन्ति ॥ __शर्वैषिणो रुद्रमतानुयायिनः । शिवतां शिवस्वरूपप्राप्तिः अस्माकं भविष्यतीति वदन्ति । दृषदः शिलाः अवलम्ब्य समुद्रं ते तितीर्षन्ति । तथैव मुक्तिप्राप्तौ विफला भविष्यन्ति इति भावः । धर्मश्रुतेरिह परत्र च येऽविचाराः सन्दिह्य तामसदृशः सततं यतन्ते । दुग्धाभिधानसमताविलबुद्धयस्ते नूनं गवार्करसपानपरा भवन्तु ॥ इह जैनमते परत्राऽन्यमतेषु च सन्दिह्य सन्देहं कृत्वा ये यतन्ते यत्नं कुर्वन्ति, ते गवार्करसपानपरा भवन्तु । अर्कवृक्षस्य पत्राणां रसो धावल्येन मन्दत्वेन च क्षीरसदृशो भवति । तदेव दुग्धमिति कैश्चित् कथ्यते। तत्पाने कृते रोग उत्पद्यते । तामसदृशो जैनेतरमतं यदाश्रयन्ति, तत् गवार्करसपानसमानमिति भावः। अज्ञस्य शक्तिरसमर्थविधेर्निबोधस्तौ चाऽरुचेरियममू तुदती न किञ्चित् । अन्धाङ्ग्रिहीनहतवाञ्छितमानसानां दृष्टा न जातु हितवृत्तिरनन्तराया ॥ अज्ञो ज्ञानहीनः, असमर्थविधिः चारित्रहीनः, अरुचिः श्रद्धाहीनः इत्येते त्रयोऽपि नश्यन्ति । तत्र दृष्टान्तोऽस्ति - वनाग्नौ जृम्भमाणे अन्धः, पङ्गः, हतवाञ्छित इति त्रयोऽपि दह्यन्ते । अतो ज्ञानं चारित्रं श्रद्धा चेति त्रयं यस्मिन् तस्यैव मोक्षसिद्धिः । तदेवाऽऽह - चालुं रुचौ तदुचिताचरणे च नृणां दृष्टार्थसिद्धिरगदादिनिषेवणेषु ।

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136