Book Title: Nandanvan Kalpataru 2019 06 SrNo 42
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 31
________________ तस्मात्परापरफलप्रदधर्मकामाः सन्तस्त्रयावगमनीतिपरा भवन्तु ॥ इति धर्मानुप्रेक्षा । १२. बोधिदुर्लभतानुप्रेक्षा लोके धनं दाराः सुहृदोऽन्ये पदार्थाश्च सुलभाः । किन्तु बोधिः सुदुर्लभा । मानवत्वमेव सुदैवाल्लभ्यते, मानवजीवन एव बोधिर्लभ्यते, नाऽन्यजातिजन्मसु । तदाह सोमदेवसूरिः - संसारसागरमिमं भ्रमता नितान्तं जीवेन मानवभवः समवापि दैवात् । तत्रापि यद्भुवनमान्यकुले प्रसूतिः तत्सङ्गतिश्च तदिहाऽन्धकवर्तकीयम् ।। मनुष्यत्वं, सत्कुले जन्म, महापुरुषसंश्रयश्चेति त्रयं यदि केनचिल्लभ्यते, तदन्धकवर्तकीयम् । कश्चिदन्धको यदृच्छया करतलेन करतलं ताडयन्नस्ति । वर्तकः पक्षिविशेषः करतलमध्यागतो गृह्यते अन्धकेन । तद्यथा अन्धकस्य सुदैवात् कदाचिदेव भवति इति दृष्टान्तः । कृच्छ्राद्वनस्पतिगतेश्च्युत एष जीवः श्वभ्रेषु कल्मषवशेन पुनः प्रयाति । तेभ्यः परस्परविरोधिमृगप्रसूतौ अस्याः पशुप्रतिनिभेषु कुमानवेषु ॥ वनस्पतिजन्म, ततः श्वभ्रेषु नरकेषु गतिः, ततः अन्योन्यविरोधिगजसिंहादिजातिषु जन्म, ततः पशुसदृशेषु मानवरूपेषु जन्म । संसारयन्त्रमुदयास्तघटीपरीतं सातानतामसगुणं भृतमाधितोयैः । इत्थं चतुर्गतिसरित्परिवर्तमध्यम् आवाहयेत् स्वकृतकर्मफलानि भोक्तुम् ॥ सातानतामसगुणम् इति सविस्तारतमोगुणप्रभावितम् । गुणशब्दः श्लिष्टः । रज्जुरित्यप्यर्थो विवक्षितः । उदयास्तावेव घट्यः । आधय एत तोयानि । एवं सावयवरूपकमिदम् । आतङ्कशोकभयभोगकलत्रपुत्रर्यः खेदयेन्मनुजजन्म मनोरथाप्तम् । नूनं स भस्मकृतधीरिह रत्नराशिमुद्दीपयेदतनुमोहमलीमसात्मा ॥ २०

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136