________________
२४७
९०) अ. ३ सू. ६] काव्यानुशासनम्
उत्पत्स्यते तु मम कोऽपि समानधर्मा कालो ह्ययं निरवधिविपुला च पृथ्वी ॥ ३५६ ॥
[मा. मा. अं. १. श्लो. ८ ] अत्र स कोऽप्युत्पत्स्यते ये प्रति यत्नो मे सफलो भविष्यतोत्युभयोरपि अर्थादाक्षेपः ।
एवं च स्थिते तच्छब्दानुपादानेऽत्र साकाङत्वम् । न चासावित्यस्य तच्छब्दार्थत्वं युक्तम् । यथा---
असौ मरुच्चुम्बितचारुकेसरः प्रसन्नताराधिपमण्डलाग्रणीः । वियुक्तरामातुरदृष्टिवीक्षितो वसन्तकालो हनुमानिवागतः।३५७।
[ ह. ना. अं. ६. ] १. अत्र हि न तच्छब्दार्थप्रतीतिः । प्रतीतौ वायस्य प्रकोपशिखिना परिदीपितोऽभू
दुत्फुल्लकिंशुकतरुप्रतिमो मनोभूः । योऽसौ जगत्रयलयस्थितिसर्गहेतुः
पायात् स वः शशिकलाकलितावतसः॥३५८॥ [ ] १५
अत्र स इति पौनरुक्त्यं स्यात् । ये केचिदिह प्रबन्धे देशे काले वास्माकमवज्ञां कुर्वन्ति, ते किमपि स्वल्पं न किञ्चिल्लोकोत्तरं वा जानन्ति, तान् प्रति नैष प्रकरणनिर्माणविषयो यत्नः, तेषां स्तोकदर्शित्वात् । लोकोत्तरं यज्जानन्तीति व्याख्यातं तत्तेषामुपहासाय । कान् प्रति तहीत्याह-उत्पत्स्यते विति । सारेतरविभागज्ञ. उत्पत्स्यते कश्चिदिति २० संभाव्यते ।
एवमिति । तथा हि-सर्वेषामेव तावत्समासानां प्रायेण विशेषणविशेध्याभिधायिपदोपरचितशरीरत्वं नाम सामान्य लक्षणमाचक्षते । इतरथा तेषां समर्थतानुपपत्तेः स च विशेषणविशेष्यभावो द्विधैव संभवति-सामानाधिकरणो व्यधिकरणश्चति । तत्राद्यः कर्मधारयस्य विषयः । यत्र तु द्वे बहूनि वा २५ पदान्यन्यस्य पदस्यार्थे विशेषणभावं भजन्ते सा बहुव्रीहेः सरणिः । तत्रैव
1. A. B drop पदान्यन्यस्य.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org