SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ २४७ ९०) अ. ३ सू. ६] काव्यानुशासनम् उत्पत्स्यते तु मम कोऽपि समानधर्मा कालो ह्ययं निरवधिविपुला च पृथ्वी ॥ ३५६ ॥ [मा. मा. अं. १. श्लो. ८ ] अत्र स कोऽप्युत्पत्स्यते ये प्रति यत्नो मे सफलो भविष्यतोत्युभयोरपि अर्थादाक्षेपः । एवं च स्थिते तच्छब्दानुपादानेऽत्र साकाङत्वम् । न चासावित्यस्य तच्छब्दार्थत्वं युक्तम् । यथा--- असौ मरुच्चुम्बितचारुकेसरः प्रसन्नताराधिपमण्डलाग्रणीः । वियुक्तरामातुरदृष्टिवीक्षितो वसन्तकालो हनुमानिवागतः।३५७। [ ह. ना. अं. ६. ] १. अत्र हि न तच्छब्दार्थप्रतीतिः । प्रतीतौ वायस्य प्रकोपशिखिना परिदीपितोऽभू दुत्फुल्लकिंशुकतरुप्रतिमो मनोभूः । योऽसौ जगत्रयलयस्थितिसर्गहेतुः पायात् स वः शशिकलाकलितावतसः॥३५८॥ [ ] १५ अत्र स इति पौनरुक्त्यं स्यात् । ये केचिदिह प्रबन्धे देशे काले वास्माकमवज्ञां कुर्वन्ति, ते किमपि स्वल्पं न किञ्चिल्लोकोत्तरं वा जानन्ति, तान् प्रति नैष प्रकरणनिर्माणविषयो यत्नः, तेषां स्तोकदर्शित्वात् । लोकोत्तरं यज्जानन्तीति व्याख्यातं तत्तेषामुपहासाय । कान् प्रति तहीत्याह-उत्पत्स्यते विति । सारेतरविभागज्ञ. उत्पत्स्यते कश्चिदिति २० संभाव्यते । एवमिति । तथा हि-सर्वेषामेव तावत्समासानां प्रायेण विशेषणविशेध्याभिधायिपदोपरचितशरीरत्वं नाम सामान्य लक्षणमाचक्षते । इतरथा तेषां समर्थतानुपपत्तेः स च विशेषणविशेष्यभावो द्विधैव संभवति-सामानाधिकरणो व्यधिकरणश्चति । तत्राद्यः कर्मधारयस्य विषयः । यत्र तु द्वे बहूनि वा २५ पदान्यन्यस्य पदस्यार्थे विशेषणभावं भजन्ते सा बहुव्रीहेः सरणिः । तत्रैव 1. A. B drop पदान्यन्यस्य. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy