________________
२४६
काव्यानुशासनम् [९०) अ. ३ सू. है न्धस्य नित्यत्वात् । अत एवाहुः-(27) ' यत्तदोनित्यमभिसंबन्धः' [ ] इति । स चायमनयोरुपक्रमो द्विविधः-शाब्दश्चार्थश्चेति । तत्रोभयोरुपादाने सति शाब्दः, यथा
यदुवाच न तन्मिथ्या यद्वदौ न जहार तत् ।३५२। [ ] ५ यथा च
स दुर्मतिः श्रेयसि यस्य नादरः
स पूज्यकर्मा सुहृदां शृणोति यः ।३५३। इति ।[ ] एकतरस्योपादाने सत्यार्थस्तदितरस्यार्थसामर्थेनाक्षेपात् ।
तत्र तदः केवलस्योपादाने आर्थः प्रसिद्धानुभूतप्रक्रान्तविषयतया त्रिविधः । तत्र प्रसिद्धार्थविषयः, यथा-'द्वयं गतम्' इत्यादि । अनुभूतविषयः, यथा- ते लोचने प्रतिदिशं विधुरे क्षिपन्ती' इति । प्रक्रान्तविषयः, यथा---
कातर्य केवला नीतिः शौर्य श्वापदचेष्टितम् । अतः सिद्धिं सेमताभ्यामुभाभ्यामन्वियेष सः ॥३५४॥
[र. वं. स. १७. ४७] यदः पुनरुत्तरवाक्यार्थगतत्वेनैवोपात्तस्वार्थः संबन्धः संभवति, पूर्ववाक्यगतस्य तच्छब्दस्यार्थादाक्षेपात् । यथा
साधु चन्द्रमसि पुष्करैः कृतं मीलितं यदभिरामताधिके । उद्यता जयिनि कामिनीमुखे तेन साहसमनुष्ठितं पुनः ॥३५५॥
१०
प्रागुपात्तस्य तु यच्छब्दस्य तच्छब्दोपादानं विना साका तैव । यथात्रैव श्लोके आद्यपादयोर्विपर्यये ।
कचिदनुपात्तमपि द्वयं सामर्थ्याद्गम्यते । यथाये नाम केचिदिह नः प्रथयन्त्यवज्ञां जानन्ति ते किमपि तान्प्रति नैष यत्नः । ये नाम केचिदिति । नामशब्दोऽक्षमायाम् । यदुक्तम्(79) नाम कुत्साप्रश्नविषादामर्षप्रीतिसंख्यानृतानयसंभावनासु । [ ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org