________________
२४५
९०) अ. ३ स. ६] काव्यानुशासनम् त्वक् तारवी निवसनं मृगचर्मशय्या
गेहं गुहा विपुलपत्रपुटाघटाश्च । मूलं दलं च कुसुमं च फलं च भोज्यं
पुत्रस्य जातमटवीगृहमेधिनस्ते ॥ ३५०॥ [ यथा वा
संरम्भः करिकीटमेघशकलोदेशेन सिंहस्य यः सर्वस्यापि स जातिमात्रविहितो हेवाकलेशः किल । इत्याशाद्विरदक्षयाम्बुदघटाबन्धेऽप्यसंरब्धवान् योऽसौ कुत्र चमत्कृतेरतिशयं यात्वम्बिका केसरी ॥३५१॥
१५
अत्र योऽसाविति पदद्वयमनुवाद्यविधेयार्थतया विवक्षितमनुवाद्यमात्रप्रतीतिकृदिति यदः प्रयोगोऽनुपपन्नः । तथा हि-यत्र यत्तदोरेकतरनिर्देशेनोपक्रमस्तत्र तत्प्रत्यवमर्शिना तदितरेणोपसंहारो न्याय्यः । तयोरप्यनुवाद्यविधेयार्थविषयत्वेनेष्टत्वात् । तयोश्च परस्परापेक्षया संबदमिधान कार्य स्यात् , यथा “ अदेङ्गुणः' इत्येवमादौ । 'प्रमाणमविसंवादि ज्ञानम् ' इत्यत्रापि यत्प्रमाणमिति लोके प्रसिद्धम् , तदविसंवादि ज्ञानमेवेति विज्ञेयम् ' इति तात्पर्यार्थः । काव्येऽपि एषैव शैली । यथा-'इयं गेहे लक्ष्मीः' इत्यादि ।
एतदेव द्रढयितुं निदर्शयति-त्वतारधी निघसनमिति ।
संरम्भ इति । अत्र करिणां कीटव्यपदेशेन तिरस्कारः, तोयदानां च शकलशब्दाभिधानेनानादरः । सर्वस्येति । यस्य कस्यचित्तुच्छतरप्रायस्येति अवहेला । जातेश्च मात्रशब्दविशिष्टत्वेनावलेपः हेवाकस्य लेशशब्दाभिधानेनाल्पताप्रतिपत्तिरित्येतत्सावधानतया कविनोपनिबद्धम् । असंरब्धवानित्यत्र त्वविमष्टविधेयांशत्वं प्रामादिकं तच्चानन्तरमेव दर्शितम् ।
पुनरविमष्टविधेयांशत्वमेवाह-अत्र योऽसाविति । 1. I. °नुवाद
२५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org