________________
काव्यानुशासनम् [९०) अ. ३. सू. ६ जुगोपात्मानमत्रस्तो भेजे धर्ममनातुरः । अगृध्नुराददेऽसोऽर्थानसक्तः सुखमन्वभूत् ।। ३४८॥
[ र. वं. स. १. श्लो. २१ ] अत्रावस्तताधनुवादेनात्मनो गोपनादि । वाक्यस्य, यथा--
शय्या शादुलमासनं शुचिशिला सम द्रुमाणामधः शीतं निर्झरवारि पानमशन कन्दाः सहाया मृगाः । इत्यप्रार्थितसर्वलभ्यविभवे दोषोऽयमेको वने दुष्प्रापार्थिनि यत्परार्थघटनावन्ध्यैर्वृथा स्थीयते ॥३४९॥
[ना. अं. ४. श्लो. २ ] अत्र शाद्वलायनुवादेन शय्यादीनि विधेयानि । अत्र च शब्दरचना विपरीता कृतेति वाक्यस्यैव दोषः, न वाक्यार्थस्य । एवं विध्यनुवादौ कर्तव्यो।
शय्यादीनि विधेयानोति । यदाह(76) अनुवाद्यमनुक्त्वैव न विधेयमुदीरयेत् ।
न ह्यलब्धास्पदं किश्चित्कुत्रचित्प्रतितिष्ठति ॥ [ (77) विधेयोद्देश्यभावोऽय रूप्यरूपकात्मकः ।
न च तत्र विधेयोक्तिरुद्देश्यात्पूर्वमिष्यते ॥ [
ननु 'शाद्वलं शय्या शुचिशिला आसनम्' इत्येवं विपर्ययेणात्र संबन्धः २० करिष्यते, तस्य पुरुषाधीनत्वात् । तथा च न यथोक्तदोषावकाशो भविष्यतीति ।
सत्यम् । न सर्वविषयोऽथ संबन्धस्य पुरुषाधीनत्वोपगमः । तस्य हि विशेषणविशेष्यभाव एव विषयोऽवगन्तव्यो यत्र स्वसौन्दर्यादेव तयोरन्योन्याक्षेपः, न विध्यनुवादभावः । तदाह-एवं चेति । विध्यनुवादयोर्यथाश्रुतपदार्थसंबन्धनिबन्धनोऽर्यप्रतीतिक्रम इति पदार्थपौर्वापर्यनियमोऽवगन्तव्य इत्यर्थः । ततश्च यदनूद्यते तस्यादावुपादानमुपपन्नम् । यस्तु विधीयते तस्य पश्चात् । ‘खले वालीयूपो भवति' इत्यादौ च तथैव दृष्टम् । तथा (78) 'वृद्धिरादैच्' इत्यत्र भगवता महाभाष्यकारेणावस्थापितम्-यदुतात्र मङ्गलद्योतनार्थमादौ वृद्धिशब्दस्योपादानं क्षमणीयम् । अन्यथाऽऽदैजनुवादेन वृद्धिसंज्ञाविधानात्पश्चा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org