________________
९०) अ. ३. सू. ६] काव्यानुशासनम्
अत्र सायकानुवादेनामोघत्वं विधेयम् । 'अमोघमाशुगम् । इति तु युक्तः पाठः । यथा च--
मध्येव्योम त्रिशङ्कोः शतमखविमुखः स्वर्गसगै चकार । ३४६ ।
५
इत्यत्र हि व्योमैव प्राधान्येन विवक्षितं न तन्मध्यम् । तेन मध्ये व्योम्न इति युक्तम् । यथा च
वाच्यवैचित्र्यरचनाचारवाचस्पतेरपि । दुर्वचं वचनं तेन बहु तत्रास्म्यनुक्तवान् ॥ ३४७ ॥
अत्र नोक्तवानिति लियो विधेयः । यथा-'नवजलधरः संन- १० द्धोऽयं न दृप्तनिशाचरः' इत्यादौ । न चानुक्तवत्त्वानुवादेनान्यदत्रकिंचिद्विहितम् । यथा___ व्योमैव प्राधान्येनेति । अत्र विश्वामित्रस्य तपःप्रभावप्रकर्षः प्रस्तुतः । स च तस्य निरुपकरणस्य सतः शून्ये व्योमनि स्वर्गसर्गसामर्थ्येनैव प्रतिपादितो भवतीति व्योमैव प्राधान्येन विवक्षितम् , न तन्मध्यम् ।
निषेधो विधेय इति । प्रसज्यविषयत्वादित्यर्थः । यदुक्तम्(73) अप्राधान्यं विधेर्यत्र प्रतिषेधे प्रधानता ।।
प्रसज्यप्रतिषेधोऽसौ क्रियया सह यत्र नञ् ॥[ नञ्-समासस्त्वनुपपन्नः । तस्य हि पर्युदास एव विषयस्तत्रैव विशेषणत्वामनः स्याद्यन्तेनोत्तरपदेन संबन्धोपपत्तः । यदाह(74) प्रधानत्वं विधेर्यत्र प्रतिषेधेऽप्रधानता ।
पर्युदासः स विज्ञेयो यत्रोत्तरपदेन नञ् ॥[ न च पर्युदासाश्रयणं युक्तम् , अर्थस्यासङ्गतिप्रसङ्गात् । उक्तवत्त्वप्रतिषेधो यत्राभिमतः, नानुक्तवत्त्वविधिः । तस्मादस्य नजो विधेयार्थनिष्ठतया प्राधान्यस्यानूद्यमानार्थपरतया तद्विपरीतवृत्तिना उक्तवच्छब्देन सह सदाचारनिरतस्येव २५ पतितेन वृत्तिर्नेष्यत एवेति स्थितम् । यदाह(75) नअर्थस्य विधेयत्वे निषेधस्य विपर्यये ।
समासो नेष्यतेऽर्थस्य विपर्यासप्रसङ्गतः ॥ इति ॥ ____1. L. °नुवादे मोघवर 2. A. B. omit सर्ग
-
Jain Education International
For Private & Personal Use Only
. www.jainelibrary.org