SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ २४२ १० १५ २० २५ काव्यानुशासनम् [ ९०) अ. ३. सू. ६ दक्षात्मजास्तारास्तासां दयितश्चन्द्रस्तस्य वल्लभाः कान्तास्तद्वेदि कानामिति । झगित्यर्थप्रतीतौ गुणः । यथा - 'काची गुणस्थानमनिन्दितायाः' । वाक्यस्य यथा धम्मिलस्य न कस्य प्रेक्ष्य निकामं कुरङ्गशावादयाः । 1 रज्यत्यपूर्वबन्धव्युत्पत्तेर्मानसं शोभाम् ॥ ३४२ ॥ [ ] अत्र धम्मिल्लस्य शोभां प्रेक्ष्य कस्य मानसं न रज्यतीति संबन्धे क्लिष्टत्वम् | अविमृष्टः प्राधान्येनानिर्दिष्टो विधेयोंऽशो यत्र तस्य भावोऽविमृष्टविधेयांशत्वम् । पदस्य, यथा- वपुर्वि रूपाक्षमलक्ष्यजन्मता दिगम्बरत्वेन निवेदितं वसु । वरेषु यद्वालमृगाक्षि मृग्यते तदस्ति किं व्यस्तमपि त्रिलोचने । ३४३ | [ कु. सं. स. ५. श्लो. ७२ ] अत्रालक्षितत्वं नानुवाद्यम्, अपितु विधेयमिति 'अलक्षिताजनिः ' इति वाच्यम् । यथा च स्रस्तां नितम्बादवलम्बमानां पुनः पुनः केसरपुष्पकाचीम् । न्यासीकृतां स्थानविदा स्मरेण द्वितीयमौर्वीमिव कार्मुकस्य || ३४४ ॥ [ कु. सं. स. ३. श्लो. ५४.] अत्र मौर्वी द्वितीयामिव इति द्वितीयत्वमात्रमुत्प्रेक्ष्यम् । यथा चतं कृपामृदुरवेक्ष्य भार्गवं राघवः स्खलितवीर्यमात्मनि । स्वं च संहितममोधसायकं व्याजहार हरसूनुसन्निभः ॥ ३४५॥ [र. वं. स. ११. लो. ८३ ] दक्षात्मजेति । अत्रैकपदप्रत्याय्योऽप्यर्यचन्द्रकान्तलक्षणो दक्षात्मजेत्याद्यनेकपदप्रत्यायितार्थपर्यालोचनाव्यवहिततया क्लिश्यमानो वाचकस्य क्लिष्टतामा - वहति । काञ्चीगुणस्थानमिति । अत्र रूढत्वादवान्तरपदार्थप्रत्ययमन्तरेणैव एकपदवदर्थप्रतीतिरिति नैतरिक्कष्टम् । 1. L बुद्धिव्युत्पत्तेः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy