________________
२४८
काव्यानुशासनम् [९०) अ. ३ सू. ६
यदा संख्यायाः प्रतिषेधस्य च विशेषणभावो भवेत्तदा द्विगोर्नसमासस्य च गोचरः । द्वितीयः प्रकारः कारकाणां संबन्धस्य च विशेषणत्वाद्बहुविधः स तत्पुरुषस्य पन्थाः । तत्रापि यदा व्ययार्थस्य विशेष्यता स्यात्तदाव्ययीभावस्य परामर्शः । तदेवं समासानां विशेषणविशेष्योभयांशसंस्पर्शित्वेऽपि यदा विशेषणांशः स्वाश्रयोत्कर्षाधान मुखेन वाक्यार्थचमत्कारकारणतया प्राधान्येन विवक्षितो विधेयधुरामधिरोहेदितरस्त्वनूद्यमानकल्पतया न्यग्भावमिव भजते तदासौ न वृत्तेविषयो भवितुमर्हति । तस्यां हि स प्रधानेतरभावस्तयोरस्तमियात् । तच्चैतद्विशेषणमेकमनेकं वास्तु नानयोविशेषः कश्चित् । ननु च विशेषणत्वमवच्छेदकत्वाद्गुणभावो विधेयत्वं च विवक्षितत्वाप्राधान्य तत्कथं तयोर्भावाभावयोरिवान्योन्यविरोधादेकत्र समावेश उपपद्यते येनैकत्र नियमेन समासो निषिध्येतान्यत्र च विकल्प्येत । नैष दोषः । विरोधस्योभयवस्तुनिष्ठत्वात् शीतोष्णादिवत् । न चेह वस्तुत्वमुभयोः संभवति । एकस्यैव वास्तवत्वादन्यस्य वैवक्षिकत्वेन विपर्ययात् । न च वस्त्ववस्तुनोविरोधः । न हि सत्यहस्तिनः कल्पनाकेसरिणश्च कश्चिदन्योन्यं विरोधमवगच्छति । फलभेदस्त्वनयोनिर्विवाद एव । एकस्य हि सकलजगद्गम्यं शाब्दिकैकविषयः पदार्थसंबन्धमात्रम् । अपरस्य पुनः कतिपयसहृदयसंवेदनीयः सत्कवीनामेव गोचरो वाक्यार्थचमत्कारातिशय इति ।
अत्र क्रमेणोदाहरणानि । तत्र कर्मधारये यथाउत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन कृत्वा धृत्वा चान्येन वासो विगलितकबरीभारमंसं वहन्त्याः । भूयस्तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः शय्यामालिङ्गय नीतं वपुरलसलसद्वाहु लक्ष्म्याः पुनातु ॥३५५॥
[वे. सं. अं. १. श्लो. ३ ] अत्र विगलितकबरीभारत्वमलसलसद्बाहुत्वं चांसवपुषोविशेषणे रतेरुदीपन२५ विभावतापादनेन वाक्यार्थस्य कामपि कमनीयतामावहत इति प्राधान्येन वि
वक्षितत्वान्न ताभ्यां सह समासे कविना न्याभावं गमितो यथा चात्रैव तत्कालकान्तिद्विगुणितसुरतप्रीतित्वं हेतुभावगर्भ विशेषणं शोरे रुचिराचरणलक्षणमतिशयमादद्विधेयतया प्राधान्येन विवक्षितमिति न तेन सह समासे निमीलितम् । (80) पदमेकमनेकं वा यद्विधेयार्थतां गतम् ।
न तत्समासमन्येन न चाप्यन्योन्यमईति ॥ [ 1. N. विशेषणता 2. A. B. drops स 3. A. B. निषेध्येत C. निषिध्यत 4. N. रुचिताचरण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org