________________
९०) अ. ३. स. ६]
काव्यानुशासनम्
२४९
तत्रैकमुदाहृतमेव । अनेक यथाभवन्तिनाथोऽयमुदप्रबाहुविशालवक्षास्तनुवृत्तमध्यः । आरोप्य चक्रनममुष्णतेजास्त्वष्ट्रेव यत्नोल्लिखितो विभाति ॥३५६॥
यथा चधिद्वान् दारसखः परं परिणतो नीवारमुष्टिंपचः सत्यज्ञाननिधिर्दधत्प्रहरणं होमार्जुनीहेतुतः । रे दुःक्षत्रिय किं त्वया मम पिता शान्तं मया पुत्रवान् नीतः कीर्त्यवशेषतां तदिह ते धिक् धिक् सहस्रं भुजान् ॥३५७॥
] १० यथा वा
राज्ञो मानधनस्य कार्मुकमृतो दुर्योधनस्याग्रतः प्रत्यक्षं कुरुबान्धवस्य मिषत: कर्णस्य शल्यस्य च । पीतं तस्य मयाद्य पाण्डववधूकेशाम्बराकर्षिणः कोणं जीवत एव तीक्ष्णकरजक्षुण्णादसग्वक्षसः ॥ ३५८ ॥ इति १५
[ वे. सं. अं. ४. श्लो. १ ] यथा चहे हस्त दक्षिण मृतस्य शिशोद्विजस्य
जीवातवे विसृज शूद्रमुनौ कृपाणम् । रामस्य पाणिरसि निर्भरगर्भखिन्नदेवीप्रवासनपटोः करुणा कुतस्ते ॥३५९॥
[उ. रा. च. अं. २. श्लो. १० ] एवम्'अङ्गराज सेनापते राजवल्लभ द्रोणापहासिन्, रक्ष भीमाद् दुःशासनम्॥३६०॥
[ वे. सं. अ. ३. पृ. ८.] २५ इत्यादौ द्रष्टव्यम् ।
विध्यनुवादोऽपि विशेषणविशेष्यभावतुल्यफल' इति । तत्रापि तद्वदेव समासाभावोऽवगन्तव्यः । यथा-' चापाचार्यस्त्रिपुरविजयी' इति । प्रत्युदाहरणं त्वेतेषामेव कृतसमासवैशसानां कल्पनीयम् । बहुव्रीहौ यथा_1. N. drops इति 2. N. भो रामपाणि°
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org