________________
२५०
१०
१५
२०
२५
३०
काव्यानुशासनम् [९०) अ. ३. सू. ६
येन स्थलीकृतो विन्ध्यो येनाचान्तः पयोनिधिः । वातापिस्तापितो येन स मुनिः श्रेयसेऽस्तु वः ॥ ३६१॥
[
}
अत्रापि विन्ध्यादिविषयत्वेन स्थलीकरणादि यद्विशेषणतयोपात्तं तत्कर्तुर्मुरतिदुष्करकारितया कमपि तपःप्रभावप्रकर्षमवद्योतयति । विन्ध्यस्य प्रतिदिवसमुच्छ्रायाच्छादितार्कप्रकाशस्य जगदान्ध्यविधायित्वात्पयोनिधेरगाधत्वादपारत्वाच्च वातापेश्च मायापरिग्रहग्रस्तसमस्त लोकत्वात् ततस्तत्प्राधान्येन विवक्षितमिति न तैः सह समासे निर्जीवीकृतम् । प्रत्युदाहरणं यथा
यः स्थलीकृतविन्ध्याद्रिराचान्तापारवारिधिः ।
यश्व तापितवातापिः स मुनिः श्रेयसेऽस्तु वः ।। ३६२ ।।
[
]
"
केचित्पुनरनयोरुदाहरणप्रत्युदाहरणयोरर्थस्योत्कर्षापकर्षप्रतीतिभेदो न कश्चिदुपलभ्यत इति मन्यन्ते । ते इदं प्रष्टव्याः - किं भोः, सर्वेष्वेव समासेषु इयं तदप्रतीतिरुत बहुव्रीहावेवायं शापः इति । तत्र यदि सर्वेष्वेवेत्यभ्युपगमस्तर्हि सहृदयाः साक्षिणः पृच्छयन्ताम् । वयं तावन्महदन्तरमेतयोः प्रतीत्योः पश्यामः । अथ बहुव्रीहावेवेत्युच्यते, तदयुक्तम् । न हि प्रतीतिभेदहेतौ प्रतीतसामर्थ्य सत्यकस्मात्तदसंभवो भवितुं न्याय्यः । एवं हि क्षित्यादिसामग्र्यामविकलायामङ्कुरादिकार्योत्पादाभावाभ्युपगमोऽपि प्रसज्येतेति । सर्वत्रैवायं प्रतीतिभेदोऽभ्युपगन्तव्यो नैव वा कुत्रचित् न पुनरिदमर्धजरतीयं लभ्यते । इह वा प्रतीतिवैचित्र्यं स्पष्टमवधारयतु मतिमान् । यत्र विध्यनुवादभावामिधित्सयेव पदार्थानामुपनिबन्धस्तत्रापि हि प्रधानेतरभावविवक्षानिबन्धनौ समासस्य भावाभावावुपगतावेव । यथा
>
सूर्याचन्द्रमसौ यस्य मातामहपितामहौ ।
स्वयं वृतः पतिर्द्वाभ्यामुर्वश्या च भुवा च यः ॥ ३६३ ॥ [ विक्रमोर्व. अं. ४, श्लो. १९] अत्र हि त्रैलोक्यालङ्कारभूतौ चराचरस्य जगतो जीवितायमानौ भगवन्तौ सूर्याचन्द्रमसौ प्रसिद्धावनूद्य यन्मातामहपितामहभावो विहितस्तत् तस्य पुरूरवसस्तौ लोकोत्तरोभयाभिजनजनितमभिमानं कामपि काष्ठामधिरोपयतो विशेषणविशेष्यभावाभिहितेनैव नयेनात्राप्यनूद्यमानगतोऽतिशयो विधीयमानाकारसंक्रमणक्रमेण तत्संबन्धिनः पर्यवस्यति । तयोर्हि स्वरूपमात्रं भिन्नं फलं पुनः पारम्पर्येण वाक्यार्थोत्कर्षलक्षणमेकमेवेति प्राधान्येन विवक्षितत्वान्न तौ ताभ्यां सह समासे म्लानिमानीत । इह च -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org