________________
९०) अ. ३ सू. ६ ]
काव्यानुशासनम्
१० .
जनको जनको यस्या याता तस्योचिता वधूः ।
आर्यस्य गृहिणी या च स्तुतिस्तस्यास्त्रपास्पदम् ॥३६४॥ इति । द्विगौ यथा
उपपन्नं ननु शिवं सप्तस्वङ्गेषु यस्य मे । दैवीनां मानुषीणां च प्रतिकर्ता त्वमापदाम् ॥ ३६५ ॥
[र. व. स. १. श्लो. ६०. ] इत्यत्र हि संख्यायाः संख्येयेष्वङ्गेषु निरवशेषताप्रतिपत्तिफलमतिशयमादधानायाः प्राधान्येन विवक्षा । तत एव हि तेषु द्विविधापत्प्रतीकारेण राज्ञः शिवोपपत्तिः परिपुष्यतीति तस्यास्तैः सह समासो न विहितः । यथा च
निग्रहात्स्वसुराप्तानां वधाच्च धनदानुजः । रामेण निहितं मेने पदं दशसु मूर्धसु ॥३६६॥ [र. वं. स. १२, श्लो. ५२]
प्रत्युदाहरणमेतदेवोदाहरणं कृतसमासवैशसं द्रष्टव्यम् । नसमासविषयस्तु पूर्वमेव वितत्योपदर्शित उपपादितश्च । तत्पुरुषे कर्तुर्यथा
देशः सोऽयमरातिशोणितजलैर्यस्मिन्हदाः पूरिताः क्षत्रादेव तथाविधः परिभवस्तातस्य केशग्रहः । । तान्येवाहितशस्त्रघस्मरगुरुण्यस्त्राणि भास्वन्ति नो यद्रामेण कृतं तदेव कुरुते द्रोणात्मजः क्रोधनः ॥ ३६७ ॥
1 [वे. सं. अं. ३. श्लो. ३३ ] अत्र रामेणेति रामस्य कर्तृभावेन करणं प्रति यद्विशेषणत्वं तत्तस्य दारुणतातिरेकात्मकमुत्कर्ष रौद्ररसपरिपोषपर्यवसायिनं समर्पयति । तस्य निर- २० तिशयशौर्यशौण्डीर्यशालित्वेन घोरतरनैर्घण्यनिघ्नतया च प्रसिद्धेः। तेन तत्प्राधान्यान्न विशेष्येण सह समासे गुणतां नीतं, कर्नादेः कारकस्यानेकस्य समशीर्षिकया विशेषणभावेन यदुपादानं स द्वन्द्वस्य विषय इति तत्स्वरूपनिरूपणावसर एव तस्य प्राधान्यमप्राधान्यं चामिधास्यत इति न तदुदाहरणमिहोपदर्शितम् । नापि विध्यनुवादभावोदाहरणं तस्य विशेषणविशेष्यभावतुल्यफलतया तत्समान- २५ वृत्तान्तत्वोपपादनात् । प्रत्युदाहरणं यथा---
यस्यावमत्य गुरुदत्तमिमं कुठारं
डिम्भोऽपि राम इति नाम पदस्य हन्ता ॥३६८॥ इति । कर्मणो यथाकृतककुपितैर्बाप्पाम्भोभिः सदैन्यविलोकितें
र्वनमसि गता यस्य प्रीत्या धृतापि तथाऽम्बया ।
1. A. B. omit तर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org