________________
१०८) अ. ५ सू. ४] काव्यानुशासनम्
कुमारेण गणा जगदिरे इति प्रक्रान्तम् । हे अविद्यमानमरणाः । तीक्ष्णखडप्रसक्तः । भीरहितः । बलात् । न न विरोधी । सुष्ठु आभासत इति स्वाभासो दर्शनीयः । धुर्यश्च । उतः चार्थे । वर्मणा बभस्ति । तेजस्वी । रुचा तेजसा हेतुना न्येजते न कम्पते। निशब्दः प्रतिषेधार्थः । कः पुनरधीरो भयवान् । सिंहनादे नादनशीले समरे कमनीयेनोन्नतवक्षसा । क्रीडतीति । ५ सर्वतोभद्रं यथा
जितानया या नयाजितारसाततसारता । न सावना नावसानयातनारिरिना तया ॥४८९॥ [दे. श. लो. २५.]
जिता अनीतयोऽननुकूलदैवं वा यया । प्रणतानां रणात्तारणे आतननमाततं सह तेनेति सविस्तरा दृढता । बहुतरं दाढर्थमित्यर्थः । न न सरक्षणा । अर्थाद्भक्तानाम् । अन्तकालदुष्कृतः विपाकताडनाया वैरिणी स्वामिनी तयेत्युतरणे संबन्धः । अत्र न केवलमधोधः क्रमेण स्थितानां पादानां प्रातिलोम्येन स्थितिविदर्धभ्रमस्यापि । तत्र हि प्रथमादिपादानां प्रथमेश्चतुर्थतृतीयद्वितीयप्रथमपादानामष्टमैश्चाक्षरैः प्रथमः पादः । एवं द्वितीयसप्तमैस्तृतीयषष्टैश्चतुर्थपञ्चमैश्च द्वितीयतृतीयचतुर्थपादाः । इह च सर्व तदेवोपलभ्यत इत्यर्धभ्रमस्याप्य. १५ वस्थानात्सर्वतोभद्रम् । अर्धभ्रमं यथा
ससत्त्वरतिदे नित्यं सदरामर्षनाशिनि । त्वराधिककसन्नादे रमकत्वमकर्षति ॥४९०॥ [कि. स. १५. श्लो. २७]
सपौरुषाणां रागप्रदे । सभयानां कोपापहारिणि । त्वरयाधिकप्रसरत्सिंहनादे २० रणरसिकत्वमपनयति । तुरङ्गपदागतं यथा
सेना लीलीलीना नाली लीनाना नानालीलीली । नालीनालीले नालीना लीलीली नानानानाली ॥४९१॥
[ रुद्रट. का. लं. श्लो. १५.] २५ 1. A.. B. बतस्ति 2. A. B. °त्युत्तरेण; C° the reading is unintelligible. 3. N. एवं च
4. A. B. C. all have some unnecessary additional letters A. 55 b: a figure to represent the verse is drawn on the margin; B. through mistake the figure is drawn on a previous page (56 b), C. has no figure.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org