Book Title: Kavyanushasana Part 1
Author(s): Hemchandracharya, Rasiklal C Parikh
Publisher: Mahavir Jain Vidyalay
View full book text
________________
१९८) अ. ८ स. ३] काव्यानुशासनम्
नानाविभूतिभिर्युतमृद्धिविलासादिभिर्गुणैश्चापि ।
अङ्कप्रवेशकाढ्यं भवति हि तन्नाटकं नाम ॥११॥ तथा विषयो मालवपश्चालादिर्यस्मिन् । चक्रवर्तिनोऽपि हि वत्सराजस्य कौशाम्बीव्यतिरिक्त विषये कार्यान्तरोपक्षेपेण विना यन्निरन्तरं निर्वर्णनं तद्वै. रस्याय भवति । वस्तुविषययोः प्रख्यातिमुक्त्वा तृतीयां प्रख्यातिमाहप्रख्यातोदात्तेति । उदात्त इति वीररसयोग्य उक्तः । तेन धीरललितधीरप्रशान्तधीरोद्भतधीरोदात्ताश्चत्वारोऽपि गृह्यन्ते । राजर्षिवंश्येत्यनेन प्रख्यातमपि यद्वस्तु ऋषितुल्यानां राज्ञां वंशे साधु नोचितं तथा' प्रख्यातत्वेऽपि देवचरितं वरप्रभावादिबाहुल्येनोपायोपदेशायायोग्यमिति नैतदुभयं निबन्धनीयमिति फलतः प्रतिषेधो दर्शितः । राजान ऋषय इवेत्युपमितिसमासः । तद्वंशे साधु चरितं यस्मिन्निति बहुव्रीहिः । न च सर्वथा देवचरितं तत्र न वर्णनीयम्, किं तु दिव्यानामाश्रयत्वेनोपायत्वेन प्रकरीपताकानायकादिरूपेणोपेतमुपगमोऽशीकरणं यत्र । तथा हि-नागानन्दे भगवत्याः पूर्णकरुणाभरनिर्भरायाः साक्षाकरणे व्युत्पत्तिर्जायते । निरन्तरभक्तिभावितानामेवं नाम देवताः प्रसीदन्ति । तस्माद्देवताराधनपुरःसरमुपायानुष्ठान कार्यमिति ।
ननु दिव्यनायकाश्रययुक्तकथाशरीरमपि नाटकं भवतीति कस्माम व्याख्यायते । व्याख्यायेत यद्येवलक्षणेन नाटकेन कश्चिदयों व्युत्पाद्येत । न चैतदेवं, दिव्यानां दिव्यप्रभावैश्वर्ययोगाद् दुरुपपादेष्वप्यर्थेष्विच्छामात्रमेव प्रयत्नो नैव सिद्धौ व्याहन्यते । तस्मात्तच्चरित मत्यैर्विधातुमशक्यमिति नैवोपदेशयोग्यम् । तथा युक्तम्(178) देवानां मानसी सिद्धिाहेषूपवनेषु च ।
क्रियायत्नाभिनिष्पन्नाः सर्वे भावा हि मानुषाः॥ तस्माविकृतैर्भावैर्न विस्पर्धेत मानुषः ॥ इति [ना. शा.अ.२. 'लो.
___ २२-२३ (C. S. S.); अ. २. श्लो. २५-२६. (N. S). तस्मादिष्टानिष्टदेवमानुषकमोपपादितशुभाशुभफलभाजां मानामेव समुपभोगविपत्प्रतिविधानव्युत्पादकं चरितमाश्रित्य नाटक निवन्धनीयमिति नपतय २५ एव नाटकेषु युज्यन्ते । नायिका तु दिव्याप्यविरोधिनी । यथोर्वशी । नायकचरितेनैव तद्वत्तस्याक्षेपात् ।।
प्रसिद्धमपि वस्तु न निष्फलं व्युत्पत्तये भवतीत्यत आह-नानाविभूतिभिर्युतमिति । धर्मार्थकाममोक्षविभवैः फलभूतैर्विचित्ररूपैर्युक्तम् । तत्रा.
1. A. B. नंदभवत्याः 2. A. B. सिद्धो . 3. A. B. वै.स्पर्धेत मानुष
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631