________________
९१) अ. ३ सू. ७ ]
काव्यानुशासनम्
कलाचतुर्वर्गशास्त्राणि विद्या । कलाश्च गीतनृत्तचित्रकर्मादिकाः ।
तत्र गीतविरुद्धत्वं यथा
श्रुतिसमधिकमुचैः पञ्चमं पीडयन्तः
1
सततमृषभहीनं भिन्नकीकृत्य षड्जम् ।
2
प्रणिजगदुरकाकुश्रावक स्निग्धकण्ठाः
परिणतिमिति रात्रेर्मागधा माधवाय ॥ ४०८ ॥
[ शि. व. स. ११. श्लो. १ ] श्रुतिसमधिकमिति श्रुत्या समधिकं पञ्चश्रुतिकमित्यर्थः ! पीडयन्त इति । श्रुतिहू|सेनाल्पीकुर्वन्त इत्यर्थः । भिन्नकीकृत्यषड्जमिति । भिन्नषड्जं कृत्वेत्यर्थः । प्रातःकाले भिन्नषड्जो गेय इत्याम्नायात्। अत्र भिन्नषड्जेन मागधी गीतिरुपनिबद्धा । तस्यां च पञ्चमस्य ऋषभवदसंभव एव । दूरे पुनः श्रुतिसमधिकत्वम् । यतो भिन्नषड्जस्येदं लक्षणम्
( 31 ) धांशस्तु धैवतन्यासः पञ्चमर्षभवर्जितः ।
घडोदीच्यवतीजातेर्भिन्नपड्डु उदाहृतः ॥ [
२६९
] १५
धांश इति धैवतांश इत्यर्थः । षड्जोदीच्यवतीजातेरिति । जातयो ष्टादश । तथा हि मुनिः
(85) षाड्जी चैवार्षभी चैव धैवत्यथ निषादिनी । षड्जोदीच्यवती चैव तथा स्यात्षड्ज कैशिकी ॥ स्यात् षड्जमध्यमा चैव षड्जग्रामसमाश्रयाः । अत ऊर्ध्व प्रवक्ष्यामि मध्यमग्रामसंश्रयाः ॥ गान्धारी मध्यमा चैव गान्धारोदीच्यवा तथा । पञ्चमी रक्तगान्धारी तथा गान्धारपश्चमी ॥
1P. षड्. In the lines that follow P has every where एड्ग for षड्ज.
2. P. I.LN. °रकाकि. As this makes no meaning I have . q. N. S.
taken this reading from
Jain Education International
For Private & Personal Use Only
ܪ
२०
www.jainelibrary.org