SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ ९१) अ. ३ सू. ७ ] काव्यानुशासनम् कलाचतुर्वर्गशास्त्राणि विद्या । कलाश्च गीतनृत्तचित्रकर्मादिकाः । तत्र गीतविरुद्धत्वं यथा श्रुतिसमधिकमुचैः पञ्चमं पीडयन्तः 1 सततमृषभहीनं भिन्नकीकृत्य षड्जम् । 2 प्रणिजगदुरकाकुश्रावक स्निग्धकण्ठाः परिणतिमिति रात्रेर्मागधा माधवाय ॥ ४०८ ॥ [ शि. व. स. ११. श्लो. १ ] श्रुतिसमधिकमिति श्रुत्या समधिकं पञ्चश्रुतिकमित्यर्थः ! पीडयन्त इति । श्रुतिहू|सेनाल्पीकुर्वन्त इत्यर्थः । भिन्नकीकृत्यषड्जमिति । भिन्नषड्जं कृत्वेत्यर्थः । प्रातःकाले भिन्नषड्जो गेय इत्याम्नायात्। अत्र भिन्नषड्जेन मागधी गीतिरुपनिबद्धा । तस्यां च पञ्चमस्य ऋषभवदसंभव एव । दूरे पुनः श्रुतिसमधिकत्वम् । यतो भिन्नषड्जस्येदं लक्षणम् ( 31 ) धांशस्तु धैवतन्यासः पञ्चमर्षभवर्जितः । घडोदीच्यवतीजातेर्भिन्नपड्डु उदाहृतः ॥ [ २६९ ] १५ धांश इति धैवतांश इत्यर्थः । षड्जोदीच्यवतीजातेरिति । जातयो ष्टादश । तथा हि मुनिः (85) षाड्जी चैवार्षभी चैव धैवत्यथ निषादिनी । षड्जोदीच्यवती चैव तथा स्यात्षड्ज कैशिकी ॥ स्यात् षड्जमध्यमा चैव षड्जग्रामसमाश्रयाः । अत ऊर्ध्व प्रवक्ष्यामि मध्यमग्रामसंश्रयाः ॥ गान्धारी मध्यमा चैव गान्धारोदीच्यवा तथा । पञ्चमी रक्तगान्धारी तथा गान्धारपश्चमी ॥ 1P. षड्. In the lines that follow P has every where एड्ग for षड्ज. 2. P. I.LN. °रकाकि. As this makes no meaning I have . q. N. S. taken this reading from Jain Education International For Private & Personal Use Only ܪ २० www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy