SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ २७० काव्यानुशासनम् [९१) अ. ३. सू. ७ एवं कलान्तरेष्वप्युदाहार्यम् । चतुर्वर्गे धर्मशास्त्रविरुद्धत्वम् , यथा सततं स राजसथैरीजे विप्रोऽश्वमेधैश्च ।४०९। [ अत्र विप्र इति । क्षत्रियस्य हि तत्राधिकारः । अर्थशास्त्रविरुद्धत्वम् , यथा ___ अहंकारेण जीयन्ते द्विषन्तः किं नयश्रिया ।४१०। [ ] द्विषज्जयस्य हि नयमूलत्वं स्थितं दण्डनीतौ । कामशास्त्रविरुद्धत्वम् , यथा तवोत्तरौष्ठे बिम्बोष्ठि दशनाङ्को विराजते ।४११॥ [ ] उत्तरौष्ठमन्तर्मुखं नयनान्तं च मुक्त्वा चुम्बनवद्दशनरदनस्थानानीति हि कामशास्त्रे स्थितम् । मोक्षशास्त्रविरुद्धत्वम् , यथा'देवताभक्तितो मुक्तिर्न तत्त्वज्ञानसम्पदः' ।४१२। [ ] मध्यमोदीच्यवा चैव नन्दयन्ती तथैव च । कार्मीरवी च विज्ञेया तथान्ध्री कैशिकी मता ॥ [ना. शा. अ. २८ लो. ४२-४५ (नि. सा.); लो. ३८-४१. (चो. से).. इत्येतासां मध्याद् या षड्जोदीच्चवती जातिस्तस्याः सकाशादित्यर्थः । कलान्तरेष्वप्युदाहार्यमिति । तत्र चित्रकलाविरोधो यथा कालिङ्ग लिखितमिदं वयस्य पत्रं __ पत्रज्ञैरपतितकोटिकण्टकधि ॥ ४०१ ॥ 'कालिङ्गं पतितारकण्टकम्' इति पत्रविदामाम्रायः । एवं कलान्तरेवभ्यूह्यम् । क्षत्रियस्य हीति । तथा च स्मृतिः(86) राजा राजसूयेन स्वाराज्यकामो यजेत । राजा सर्वतो विजीती अश्वमेधेन यजेत ॥ . [ ] इति । देवताभक्तित इति । (87) चतुर्विधा भजन्ते मां जनाः सुकृतिनः सदा । आतों जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ॥ तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते ॥ [ भ. गी. अ. ७ श्लो. १६-१७ ] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy