________________
४४) अ. २. सू. १८] काव्यानुशासनम्
१२५ मानितया परमुपहसति, उत्कर्षापायशङ्कया शोचति, अपायं प्रति क्रुध्यति, अपायहेतुपरिहारे समुत्साहने विनिपाताद बिभेति, किंचिदयुक्ततयाभिमन्यमानो जुगुप्सते, तत्तत्स्वपरकर्तव्यवैचित्र्यदर्शनाद्विस्मयते । किंचिजिहासुस्तत्र वैराग्याच्छमं भजते । न ह्येतच्चित्तवृत्तिवासनाशून्यः प्राणी भवति । केवलं कस्यचित्काचिदधिका चित्तवृत्तिः काचिदूना। ५ । कस्यचिदुचितविषयनियन्त्रिता कस्यचिदन्यथा । तत्काचिदेव पुरुषार्थोपयोगिनीत्युपदेश्या । तद्विभागकृतश्चोत्तमप्रकृत्यादिव्यवहारः ।
ये पुनरमी धृत्यादयश्चित्तवृत्तिविशेषास्ते समुचितविभावाभावाजन्ममध्ये न भवन्त्येवेति व्यभिचारिणः । तथा हि रसायनमुपयुक्तवतो ग्लान्यालस्यश्रमप्रभृतयो न भवन्त्येव । यस्यापि वा भवन्ति विभाव- १० बलात्तस्यापि हेतुप्रक्षये क्षीयमाणाः संस्कारशेषतां नावश्यमनुषघ्नन्ति । रत्यादयस्तु संपादितस्वकर्तव्यतया प्रलीनकल्पा अपि संस्कारशेषतां नातिवर्तन्ते ! वस्त्वन्तरविषयस्य रत्यादेरखण्डनात्। यदाह पतञ्जलिः (12) " न हि चैत्र एकस्यां वियां रक्त इत्यन्यासु विरक्तः।"
1 [व्या. भा. यो. सू. ५ अ. २ पृ. १०] १५ इत्यादि।
तस्मात्स्थायिरूपचित्तवृत्तिसूत्रस्यूता एवामी स्वात्मानमुदयास्तमयवैचित्र्यशतसहस्रधर्माणं प्रतिलभमानाः स्थायिनं विचित्रयन्तः प्रतिभासन्त इति व्यभिचारिण उच्यन्ते । तथा हि ग्लानोऽयमित्युक्ते कुत इति हेतुप्रश्नेनाऽस्थायितास्य सूत्र्यते । न तु राम उत्साहशक्तिमानित्यत्र २० 1. I प्रशमं 2. I. का भवति 3. I. 'मुपबध्नन्ति 4. I. पिरक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org