Book Title: Jain Tattva Pradip
Author(s): Mangalvijay
Publisher: Abhaychandra Bhagwandas Gandhi

View full book text
Previous | Next

Page 20
________________ प्रथमोऽधिकारः । दुःखाद्युपभोगरहितत्वं कार्मणस्य लक्षणम् । जीवानां संसरणं द्वेधा -- देशान्तर - भावान्तरप्राप्तिभेदात् । तत्र ये जीवाः पूर्वशरीरपरित्यागपूर्वकं देशान्तरं गत्वा जन्मान्तरं प्राप्नुवन्ति तेषां देशान्तरप्राप्तिरूपं संसरणम् । ये पुनर्मृताः सन्तः स्वशरीर एव कृम्यादिभावेनोत्पद्यन्ते तेषां भावान्तरप्राप्तिरूपं संसरणम् । २१ जीवानां गतिरनुश्रेणिर्भवति, न विश्रेणिः । तत्राकाशप्रदेशानुश्रेणिरूपेण जीव- पुद्गलानां या गतिस्तद्रूपत्वमजुथेणिगतेलक्षणम्, आकाशमदेशपङ्क्त्यनुसारेण गमनरूपत्वं वा । सजीवानां द्विविग्रहपर्यन्तेव गतिः । विग्रहो नाम वक्रता = कुटिलता, तत्मधाना गतिर्वक्रगतिः । तत्रैकविग्रहा है सामयिकी, द्विविग्रहा तु सामयिकी । स्थावराणां त्वेकविग्रहादिचतुर्विग्रहपर्यन्ता गतिः । अत्रेदं ध्येयम् - त्रसानां निश्चयनयानुसारेणैकविग्रहायां द्विसामयिक्यामप्येकोऽनाहारकसमयः, व्यवहारानुसारेण तु उभयत्राप्याहारोऽस्त्येव । द्विविग्रहलक्षणत्रिसामायक्यां तु द्वावनाहारकसमयौ निश्चयनयमते, व्यवहारनये त्वेकसमयोsनाहारकः । एवं त्रिविग्रदायां निश्चयेन त्रयः समया अनाहारकाः, मतान्तरे द्वौ । चतुर्विप्रहायां चत्वारः,

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129