Book Title: Jain Tattva Pradip
Author(s): Mangalvijay
Publisher: Abhaychandra Bhagwandas Gandhi

View full book text
Previous | Next

Page 69
________________ 1 जैनतत्त्वप्रदीपे यस्योदये सति विवक्षितभवाद् भवान्तरे जीवानां गमनं स्यात् तद्रूपत्वं गतिनामकर्मणो लक्षणम् । यस्योदये सति नरकगमनरूपत्वं तन्नरकगतिनामकर्मणो लक्षणम् । 1 यस्योदये सति तिर्यग्गतिगमनरूपत्वं ततिर्यग्गतिनामकर्मणो लक्षणम् । यस्योदये सति मनुष्यगतिगमनरूपत्वं तन्मनुष्यगतिनामकर्मणो लक्षणम् । यस्योदये सति देवगतिगमनरूपत्वं तद्देवगतिनामकर्मणो लक्षणम् । यस्योदये सति एकेन्द्रियादिजातिव्यवहारभाक् स्यात् तद्रूपत्वम्, एकेन्द्रियादिसंज्ञाव्यपदेशनिमित्त कत्वम्, ना.रकादिगतिषु अव्यभिचारि सादृश्येनै की भूतार्थात्मिका या जातिस्तद्व्यपदेश भानिमित्तकत्वं वा एकेन्द्रियादिजातिनामकर्मणो लक्षणम् । यस्योदये सति चेतनस्य निवासस्थानरूपशरीरनिष्पत्तिः स्यात् तद्रूपत्वं शरीरनामकर्मणो लक्षणम् । सारस्थूळ पुद्गलद्रव्यवर्गण निर्मापित रूपत्वमौदा रिकशरीरस्य लक्षणम् । तत्प्रायोग्य पुद्गलग्रहणनिमित्तकत्वं तन्नामकर्मणो लक्ष १०६ णम् । "

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129