Book Title: Jain Tattva Pradip
Author(s): Mangalvijay
Publisher: Abhaychandra Bhagwandas Gandhi

View full book text
Previous | Next

Page 88
________________ षष्ठोऽधिकारः। अथ लक्षणविधानाभ्यां निर्जरांस्वरूप प्रतिपाद्यतेलक्षणं तु प्रागुक्तमपि प्रकरणवशादत्रापि निगद्यते परिपक्वभूतानां कर्मावयवानामात्मप्रदेशेभ्यः परिशाटनरूपत्वं निर्जराया लक्षणम् । सा च निर्जरा तपसा भवति । अभिनवकर्मप्रवेशाभावरूपत्वे सति पूर्वोपार्जितकर्मपरिक्षयरूपत्वं तपसो लक्षणम् । . तपः सेव्यमानेनात्मप्रदेशेभ्यः कर्माणि विघव्यन्ते । . शुष्करसीभूतं कर्म निःस्नेहं सद् बन्धनात् परिशस्तीत्यर्थः । तेनैव तपसा संवरो भवति निर्जरा च । तथाहिअनशनादिप्रायश्चित्तध्यानादितया युक्तोऽवश्यतयैव संह. ताश्रवद्वारो भवति । . तच्च तपो द्विविध, वाह्याभ्यन्तरभेदात् । तत्रापि वाह्यं पोढा, अनशनावमौदर्यवृतिपरिसंख्यान. रसपरित्यागविविक्तशयनासनलीनतालक्षणवाह्यतपोभेदात् । अय तेषां लक्षणद्वारा स्वरूपमुच्यते संयमरक्षणकर्मनिर्जराप्रयोजनत्वे सति चतुर्थपष्ठाः मादिरूपत्वं सम्यगनशनतपसो लक्षणम् । .

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129