________________
षष्ठोऽधिकारः।
अथ लक्षणविधानाभ्यां निर्जरांस्वरूप प्रतिपाद्यतेलक्षणं तु प्रागुक्तमपि प्रकरणवशादत्रापि निगद्यते
परिपक्वभूतानां कर्मावयवानामात्मप्रदेशेभ्यः परिशाटनरूपत्वं निर्जराया लक्षणम् ।
सा च निर्जरा तपसा भवति ।
अभिनवकर्मप्रवेशाभावरूपत्वे सति पूर्वोपार्जितकर्मपरिक्षयरूपत्वं तपसो लक्षणम् । .
तपः सेव्यमानेनात्मप्रदेशेभ्यः कर्माणि विघव्यन्ते । . शुष्करसीभूतं कर्म निःस्नेहं सद् बन्धनात् परिशस्तीत्यर्थः ।
तेनैव तपसा संवरो भवति निर्जरा च । तथाहिअनशनादिप्रायश्चित्तध्यानादितया युक्तोऽवश्यतयैव संह. ताश्रवद्वारो भवति । . तच्च तपो द्विविध, वाह्याभ्यन्तरभेदात् ।
तत्रापि वाह्यं पोढा, अनशनावमौदर्यवृतिपरिसंख्यान. रसपरित्यागविविक्तशयनासनलीनतालक्षणवाह्यतपोभेदात् ।
अय तेषां लक्षणद्वारा स्वरूपमुच्यते
संयमरक्षणकर्मनिर्जराप्रयोजनत्वे सति चतुर्थपष्ठाः मादिरूपत्वं सम्यगनशनतपसो लक्षणम् । .