Book Title: Jain Tattva Pradip
Author(s): Mangalvijay
Publisher: Abhaychandra Bhagwandas Gandhi
View full book text
________________
१६४
जैनतत्त्वप्रदीपेधर्मास्तिकायाभावात् । जीवपुद्गलानामुपग्रहकारणं धर्मा. स्तिकायः, तस्याभावात् परतो गतिनास्ति, यथाऽला. . पुनोनाधो नापि तिर्यक् किन्तु तत्रैवोर्ध्वमनुश्रोणि गतिः, एवं मुक्तोऽपि निष्क्रियो लोकान्तेऽवतिष्ठते । . पन्धच्छेदादिति, यथा रज्ज्वा गाद वद्धायाः कीचक. विदलघटिताया रज्जुबन्धच्छेदादुपरितनपुटस्यागमनमूर्व दृष्टम् , यथा वा बीजीकोशः फलं फली वा तस्या बन्धनं गाढसंपुटता, तस्याः सवितृकिरणतापशोषितायाः परि. णतिकाले संपुटोद्भेदलक्षणश्च्छेदः, तस्माद् बन्धच्छेदा. देरण्डादिफलभेदे बीजानां गतिः, यथा वीजान्युड्डीय.दरे पतन्ति, तथा कर्मबन्धोऽत्र फलादिस्थानीयः, तस्य च्छे. दात्तद्विघटनानन्तरमेवोवं गच्छत्यालोकान्तात् । ।
तथा गतिपरिणामाच सिद्ध्यमानस्य गतिर्भवति । ग. तिमत्त्वमत्र जीवशुद्गलानां भवति, नान्यद्रव्याणाम् ।
तत्राधोगौरवधर्माणः पुद्गलाः, ऊर्ध्वगौरवधर्माणो जीवा:, एष स्वभावः। तथा च सत्सु प्रयोगादिषु गतिकारणेषु जातिनियोनास्तिर्यगूर्व स्वाभाविक्यो लोष्टवायुवहीनां गत. यो दृष्टाः, तथा कर्मसङ्गविमुक्तस्योर्ध्वगौरवार्ध्वमेव सि. ख्यमानस्य गतिः, संसारिणस्तु कर्मसंयोगादधस्तिर्यग्वं वगतयो भवन्ति । . एवं च निसर्गाधिगमयोरन्यतरत्र तत्त्वार्थश्रद्धानात्मकं

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129