Book Title: Jain Tattva Pradip
Author(s): Mangalvijay
Publisher: Abhaychandra Bhagwandas Gandhi

View full book text
Previous | Next

Page 40
________________ जैनतत्त्वप्रदीपेभूतव्रत्यनुकम्पादानसरागसंयमादियोगशान्तिशौचा. नि कुर्वाणो जीवः सातावेदनीयं कर्म बध्नाति । आयुर्नाम कर्मोदये सति भवन्ति भविष्यन्ति अभूवन्निति भूतानि . एकेन्द्रियादिपञ्चेन्द्रियपर्यन्तानि । व्रताभिसंवन्धरूपत्वं वतिनः परपीडामात्मीयां कुर्वाणस्यानुग्रहार्दीकृतान्ताकरणस्य चानु पश्चात् परकीयदुःखदर्शनानन्तरं हृदयकम्पनरूपत्वमनुकम्पायर्या लक्षणम् । . स्वपरानुग्रहाथै स्वकीयस्य वस्तुनोऽतिसर्जनरूपत्वं दानस्य लक्षणम् । संज्वलनलोभादिकपायो रागः, तत्सहवर्तित्वं सरागस्य लक्षणम् । पञ्चमहाव्रतवं संयमस्य लक्षणम् । सरागस्य संयमः सरागसंयमः । मूलोत्तरगुणसंपल्लोभायुभय. भाज इति यावत् । निरवधक्रियानुष्ठानरूपत्वं योगस्य लक्षणम् । सरागसंयमादीनां योगः सरागसंयमयोगः। . धर्मप्रणिधाने सति मनोवाकायैः क्रोधनिहरूपत्वं, उदितक्रोधस्य कथंचिद् वैफल्यापादनरूपत्वं, क्रोधोदय १ अनुकम्पा द्विधा, भूतविषया, व्रतिविपया च । तत्र हृदयकम्पनरूपानुकम्पा भूतविषया, व्रतिविषया तु भक्तिरूपानुकम्पा ज्ञेया, अनुकम्पाशब्दस्यात्र भक्तिवाचित्वात्, पूर्वाचायैरपि तथैव प्रतिपादितत्वाच ।

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129