Book Title: Jain Tattva Pradip
Author(s): Mangalvijay
Publisher: Abhaychandra Bhagwandas Gandhi

View full book text
Previous | Next

Page 53
________________ तृतीयोऽधिकारः । तेषामेवान्नपानादीनां निरोधलक्षणातिचारस्य लक्षणम् । मिथ्योपदेश रहस्याभ्याख्यान सहसाभ्याख्यानकूटलेख विश्वस्त मन्त्रभेदलक्षणाः पञ्चातिचारा द्वितीयाणुत्रतस्य भवन्ति । . ८१ प्रतिषेधकरणरूपत्वमन्नपान पापजनकोपदेशकरणरूपत्वं, परेण स्वयं वाऽन्यस्यातिसंधानरूपत्वं वा मिथ्योपदेशस्य लक्षणम् । गुह्यप्रकाशनरूपत्वं, रहस्येनासदध्यारोपणरूपत्वं वा रहस्याभ्याख्यानस्य लक्षणम् । अनालोच्य 'चौरस्त्वम्, 'पारदारिकोऽयम्' इत्यसद्वचनरूपत्वं सहसाभ्याख्यानस्य लक्षणम् । अन्यसदृशाक्षरमुद्राकरणरूपत्वं, परप्रयोगाधीनतया ऽन्येनानुक्तस्यापि वचनस्य लेख करणरूपत्वं वा कूटलेखस्य लक्षणम् । विश्वासमुपगतानां जनानां विचारलक्षणमन्त्रस्य प्रकाशकरणं विश्वस्तमन्त्रभेदस्य लक्षणम् । न्यासीकृत हिरण्यादीनामपलपनं न्यासापहारस्य लक्षणम् । स्तेन प्रयोग तदाहृतादान- विरुद्ध राज्यातिक्रम-प्रतिरूपकव्यवहार - हीनाधिकमानोन्मानलक्षणाः पश्चातिचारास्तृतीयाणुव्रतस्य भवन्ति । દ્

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129