Book Title: Jain Tattva Pradip
Author(s): Mangalvijay
Publisher: Abhaychandra Bhagwandas Gandhi

View full book text
Previous | Next

Page 57
________________ SE जैनतत्त्वप्रदीपे___कार्यार्थिना कोष्ठकाष्ठादिकं प्रक्षिप्य आगमनसूचकत्वं पुगकक्षेपस्य लक्षणम् । ‘अप्रत्यवेक्षिताममार्जितभूमावृत्सर्गादाननिक्षेपाः, अनादरस्मृत्यनुपस्थापने चेति पञ्चातिचाराः पोषधलक्ष. तृतीयशिक्षावतस्य भवन्ति । उच्चारप्रस्रवणखेलसियाणकादीनां प्रत्यवेक्षणप्रमाजनाभाववद्भूमौ परित्यागरूपत्वमप्रत्यवेक्षितभूमावुत्सर्गकक्षणप्रथमातिचारस्य लक्षणम् । यष्टिंपीठफलकपात्रकम्बलादीनां प्रत्यवेक्षणप्रमार्जन मकृत्वा भूमौ ग्रहणनिक्षेपकरणरूपत्वमप्रत्यवेक्षितभूमौ ग्रहणलक्षणातिचारस्य लक्षणम् । दर्भकुशकम्बलवस्त्रादिलक्षणसंस्तारकस्य प्रत्यवेक्षण प्रमार्जनमकृत्वा भूमौ निक्षेपकरणरूपत्वं तृतीयातिचारस्य लक्षणम् । पौषधेऽनुत्साहकरणमनादरलक्षणचतुर्थातिचारस्य लक्षणम् । - पौषधोपवासविषयकपतिपत्तिरूपकर्तव्यक्रियायां स्मृ. तिभ्रंशरूपत्वं स्मृत्यनुपस्थापनलक्षणपश्चमातिचारस्य लक्ष. णम् । सचित्तनिक्षेप-सचित्तपिधान-परव्यपदेश-मात्सर्य-का. लातिक्रमलक्षणा: पश्वातिचारा अतिथिसंविभागस्य भवन्ति ।

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129