________________
SE
जैनतत्त्वप्रदीपे___कार्यार्थिना कोष्ठकाष्ठादिकं प्रक्षिप्य आगमनसूचकत्वं पुगकक्षेपस्य लक्षणम् ।
‘अप्रत्यवेक्षिताममार्जितभूमावृत्सर्गादाननिक्षेपाः, अनादरस्मृत्यनुपस्थापने चेति पञ्चातिचाराः पोषधलक्ष. तृतीयशिक्षावतस्य भवन्ति ।
उच्चारप्रस्रवणखेलसियाणकादीनां प्रत्यवेक्षणप्रमाजनाभाववद्भूमौ परित्यागरूपत्वमप्रत्यवेक्षितभूमावुत्सर्गकक्षणप्रथमातिचारस्य लक्षणम् ।
यष्टिंपीठफलकपात्रकम्बलादीनां प्रत्यवेक्षणप्रमार्जन मकृत्वा भूमौ ग्रहणनिक्षेपकरणरूपत्वमप्रत्यवेक्षितभूमौ ग्रहणलक्षणातिचारस्य लक्षणम् ।
दर्भकुशकम्बलवस्त्रादिलक्षणसंस्तारकस्य प्रत्यवेक्षण प्रमार्जनमकृत्वा भूमौ निक्षेपकरणरूपत्वं तृतीयातिचारस्य लक्षणम् ।
पौषधेऽनुत्साहकरणमनादरलक्षणचतुर्थातिचारस्य लक्षणम् । - पौषधोपवासविषयकपतिपत्तिरूपकर्तव्यक्रियायां स्मृ. तिभ्रंशरूपत्वं स्मृत्यनुपस्थापनलक्षणपश्चमातिचारस्य लक्ष. णम् ।
सचित्तनिक्षेप-सचित्तपिधान-परव्यपदेश-मात्सर्य-का. लातिक्रमलक्षणा: पश्वातिचारा अतिथिसंविभागस्य भवन्ति ।