SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽधिकारः। अभिहितो लक्षणविधानाभ्यां कायवामनःकर्मयोगलक्षण आश्रवः । अधुना बन्धः प्रतिपाद्यते मिथ्यादर्शनाविरतिकषाययोगा इति पञ्च वन्धहेतवो भवन्ति। तत्र मिथ्यात्वं नाम तत्त्वार्थाश्रद्धानलक्षणं सम्यग्दनिविपरीतरूपमुक्तमेव । मत्यज्ञानादिना परिकल्पयतोऽसम्यग्दर्शनपरिग्रहविषयको योऽयं तदेव सत्यम् । इत्यभ्युपगमः, तत्मतिपत्या गृहीतमिथ्यात्वरूपत्वं, मत्यज्ञानादिनाऽभ्युपेत्यासम्यग्दर्शनविषयकपरिग्रहरूपत्वं वाभिगृहीतमिथ्यात्वस्य लक्षणम् । ताहमिथ्यात्वं येषां सन्तीति मिथ्यात्विनः । ते च त्रिषष्ट्युत्तरशतत्रयसंख्याका भवन्ति । तथाहि-सप्तपष्टिरज्ञानवादिनां मुगतशिष्यप्रभृतीनां भेदाः सन्ति । साकल्य-वष्कुल-सात्यमुनि-चारायण-माध्यन्दिन-मौद-पिप्पलाद वादरायण-जैमिनि-वसुप्रभृतयोऽपि ज्ञातव्याः ! क्रियावादिनामशीत्युत्तरशतभेदाः। ते च मरीचिकुमारकपिलोलूकगार्यप्रभृतयः । चतुरशीतिभेदा अक्रियावादिनाम् । ते च कोकलकाण्ठेविद्धि-कौशिकमभृतयः।
SR No.010022
Book TitleJain Tattva Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherAbhaychandra Bhagwandas Gandhi
Publication Year1918
Total Pages129
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy