________________
चतुर्थोऽधिकारः। द्वात्रिंशद्भेदा विनयवादिनाम् । ते च वशिष्ट-पाराशरजातुकर्ण-वाल्मीक-रोमहर्प-सत्यदत्त-व्यास-इलापुत्रप्रभृ. तयः।
अभिगृहीतमिथ्यात्वादन्यद् यन्मिथ्यात्वं तदनभिगृहीतादिकम् । तदपि तत्त्वार्थाश्रद्धानरूपं भवति ।
पूर्वोक्तविरतिलक्षणाद् विपरीतरूपत्वमाविरतेलक्षणम् । संसारमाप्तिनिमित्तरूपत्वं कपायस्य लक्षणम् ।
योगस्तु पश्चदशविधा प्रमादोऽपि । अत्र यद्यपेक्षिता, वर्हि सोऽपि उच्यते । लक्षणतो यदि कपायादिप्वन्तर्भूतः, अहि तेषां कक्षणकथनेन सोऽपि संगृहीतो भवति ।
स्मृत्यनवस्थाने सति कुशलेबनादररूपत्वे च सति योगदुष्पणिधानरूपत्वं प्रमादस्य लक्षणम् । तस्य च प्रमादस्य पञ्च प्रकाराः सन्ति मद्य-विषय-कपाय-विकथा-निद्रारूपाः । एषां मिथ्यादर्शनादीनां वन्धहेतूनां पूर्वेषां सद्भावे सति उत्तरेपा नियतभावः। उत्तरोत्तरसावे तु पूर्वेषां भजना अनियतभाव इत्यर्थः ।।
अथ बन्धहेतुपतिपादितं श्रुत्वा पर उत्कर्णायते-हस्ताधभावे सति आदानशक्तिविरहात् कथममूर्तस्यात्मनः कर्मग्रहणं प्रति व्यापारः। उच्यते, इयमेव तावदस्थानारेका
१ कण्यन्ते-पीड्यन्ते प्राणिनः परस्परं यस्मिन्नसौ कषः संसारः, तमयन्त प्राप्नुवन्ति जन्तवोऽनेनेति कपायः क्रोध-मान-माया-लोभ
रूपः।