________________
जैनतत्त्वप्रदीपे
जैनप्रक्रियानभिज्ञस्य देवानांपियस्य, केनात्मनोऽमूर्त ताभ्युपेता ? कर्मजीव संबन्धस्याऽनादित्वादेकत्वपरिणामे सति क्षीरोदकवद् वहन्ययोगोलकवद् वा मूर्त एवात्मा, कार्मणशरीरसंवन्धात् कर्मग्रहणे व्याप्रियते । अतो नास्ति शङ्काकरणसमयः । सकषायत्वलक्षणहेतुना जीवः कर्मणो योग्यान् पुद्गलान् गृह्णाति ।
६४
स्यादेतत् पूर्वं सामान्यवन्धहेतुग्रहणे कपायोऽपि गृहीत एव, पुनः किमर्थं गृह्यते । इति शङ्कायां समाधीयतेaratat कषायाणां प्राधान्यख्यापनार्थे पुनः कपायपदमुपात्तम् । अथवा, कषायेषु सत्सु तीव्रमन्दमध्यमाशयानुरूपस्थित्यनुभागो भवतीति विशेषप्रतिपत्यर्थं पुनः कषायपदं गृहीतम् ।
वन्धनं वन्धः, कर्मयोग्य पुद्गलानां परस्परमाश्लेषः, अथवा प्रकृत्यादिना वध्यते अस्वातन्त्र्यमापद्यते आत्मा स बन्धः पुद्गल परिणामः क्षीरोदकवत् । स चात्ममदेशेषु रागाद्यभ्यञ्जनेषु कर्मयोग्य पुद्गलानामा श्लेषमात्रत्वेन यो वन्धः स एव बन्धपदार्थः । तथा च मिथ्यात्वादिवन्धहेतुवशादाद्रकृतचेतसः सर्वतो योगविशेषात् सूक्ष्मैकक्षेत्राव गाह्यनन्तप्रदेशानां कर्मयोग्यानां वर्गणानामुपश्लेषरूपत्वं बन्धसामान्यस्य लक्षणम् ।
•
रागादिस्नेहाभ्यञ्जनस्यात्मनोऽपूर्व कर्मग्रहणयोग्यताधारकत्वं कार्मणशरीरपरिणामस्य लक्षणम् ।