________________
चतुर्थोऽधिकारः ।
तथा च आत्मशरीरयोः कथञ्चिदैक्यादनाभोगवीयतः कर्मवन्धो भवति । स एव कार्मणशरीर पुद्गलग्रहणकृतो बन्धश्चतुर्विधः ।
लक्षणतः प्रतिपादितो बन्धः, संप्रति विधानत उच्यते
उक्तलक्षणो बन्ध एकोऽपि कार्यभेदात् प्रकृत्यादिविभागमासादयति । यथा मनुष्यः क्रौर्यनीचैस्त्वादिलक्षणकार्यभेदान्नानात्वं प्रतिपद्यते । स च द्वेधा, द्रव्यभावभेदात् । तत्र द्रव्यवन्धस्तृणकाष्ठादिषु प्रसिद्धः । भाववन्धस्तु निगद्यते -
भाववन्धञ्चतुर्विधः, प्रकृति-स्थित्यनुभाग-प्रदेशबन्ध -
→
६५
·
@
भेदात् ।
अनाभोगपूर्वाध्यवसाय विशेषे सति आहारपरिणामवत् स्थित्यादिलक्षणकर्मपरिणतिरूपत्वं प्रकृतिवन्धस्य - क्षणम् । स च कर्मात्मनोरैक्यतापादनस्वरूपः ।
कर्त्रा परिगृहीत पूर्वोक्तकर्म पुद्गलराशेरात्म प्रदेशेष्ववस्थानविशेषरूपत्वं स्थितिबन्धस्य लक्षणम् ।
कालान्तराऽवस्थाने सति विपाकवर्तिपरिणामविशेपरूपत्वं, प्रयोगकर्मणेोपात्तानां शुभाशुभकर्मप्रकृतीनां प्रकृतिस्थितिरूपाणां तीव्रमन्दाद्यनुभावतयाऽनुभवरूपत्वं वा अनुभागवन्धस्य लक्षणम् ।
स चानुभागबन्धः समासादितपरिपाकावस्थस्य वद