________________
तृतीयोऽधिकारः ।
तेषामेवान्नपानादीनां निरोधलक्षणातिचारस्य लक्षणम् ।
मिथ्योपदेश रहस्याभ्याख्यान सहसाभ्याख्यानकूटलेख विश्वस्त मन्त्रभेदलक्षणाः पञ्चातिचारा द्वितीयाणुत्रतस्य भवन्ति ।
.
८१
प्रतिषेधकरणरूपत्वमन्नपान
पापजनकोपदेशकरणरूपत्वं, परेण स्वयं वाऽन्यस्यातिसंधानरूपत्वं वा मिथ्योपदेशस्य लक्षणम् ।
गुह्यप्रकाशनरूपत्वं, रहस्येनासदध्यारोपणरूपत्वं वा
रहस्याभ्याख्यानस्य लक्षणम् ।
अनालोच्य 'चौरस्त्वम्, 'पारदारिकोऽयम्' इत्यसद्वचनरूपत्वं सहसाभ्याख्यानस्य लक्षणम् ।
अन्यसदृशाक्षरमुद्राकरणरूपत्वं, परप्रयोगाधीनतया ऽन्येनानुक्तस्यापि वचनस्य लेख करणरूपत्वं वा कूटलेखस्य लक्षणम् ।
विश्वासमुपगतानां जनानां विचारलक्षणमन्त्रस्य प्रकाशकरणं विश्वस्तमन्त्रभेदस्य लक्षणम् ।
न्यासीकृत हिरण्यादीनामपलपनं
न्यासापहारस्य
लक्षणम् ।
स्तेन प्रयोग तदाहृतादान- विरुद्ध राज्यातिक्रम-प्रतिरूपकव्यवहार - हीनाधिकमानोन्मानलक्षणाः पश्चातिचारास्तृतीयाणुव्रतस्य भवन्ति ।
દ્