________________
जैनतत्त्वप्रदीपे. चौर्यक्रियायां चौरस्य प्रेरणाकरणरूपत्वं स्तेनप्रयो. - गस्य लक्षणम् ।
चौरेणाहतद्रव्यस्य मुधा क्रयेण वा ग्रहणं तदाहतादानस्य लक्षणम् ।
राज्यमर्यादामुल्लवयाऽन्यप्रकारेणादानरूपत्वं विरुद्ध. राज्यातिक्रमस्य लक्षणम् ।
कुत्सितद्रव्यस्यापि सुवर्णरूप्यादिसशवर्णादियुक्तं कृत्वा लोके सुवर्णरूप्यादिव्यवहारकरणरूपत्वं, कृत्रिमसु. वर्णादिकं निष्पाद्य लोके सत्यसुवर्णादिव्यवहारकरणरूप. त्वं वा प्रतिरूपकव्यवहारस्य लक्षणम् ।
कूटतुलमानाभ्यां परप्रतारणार्थ कूटक्रयविक्रयकक्षणव्यवहारकरणरूपत्वं कूटक्रयविक्रयस्य लक्षणम् ।
___ अन्यविवाहकरणेवरगमनपरगृहीतागमनाऽनङ्गक्री. डातीवकामलक्षणाः पश्चातिचाराश्चतुर्थव्रतस्य भवन्ति ।
स्वापत्यव्यतिरिक्तस्य कन्याफललिप्सया नेहसंब. न्धेन चा विवाहकरणमन्यविवाहकरणस्य लक्षणम् । ____ सातावेदनीय चारित्रमोहनीयोदये सति अनिदेवादि. साक्षिपूर्वकपाणिग्रहणरूपत्वं विवाहस्य लक्षणम् ।
प्रतिपुरुषगमनशीलायां साधारणस्त्रियां फिश्चित्कालं भाटिमदानादिना ग्रहणपूर्वकगमनरूपत्वामित्वरगमनस्य लक्षणम् । ।
योनिप्रजननलक्षणस्थानं त्यक्त्वाऽन्यत्राऽनेकविध