________________
जैनतत्त्वप्रदीपेभूतव्रत्यनुकम्पादानसरागसंयमादियोगशान्तिशौचा. नि कुर्वाणो जीवः सातावेदनीयं कर्म बध्नाति । आयुर्नाम
कर्मोदये सति भवन्ति भविष्यन्ति अभूवन्निति भूतानि . एकेन्द्रियादिपञ्चेन्द्रियपर्यन्तानि ।
व्रताभिसंवन्धरूपत्वं वतिनः परपीडामात्मीयां कुर्वाणस्यानुग्रहार्दीकृतान्ताकरणस्य चानु पश्चात् परकीयदुःखदर्शनानन्तरं हृदयकम्पनरूपत्वमनुकम्पायर्या लक्षणम् । . स्वपरानुग्रहाथै स्वकीयस्य वस्तुनोऽतिसर्जनरूपत्वं दानस्य लक्षणम् ।
संज्वलनलोभादिकपायो रागः, तत्सहवर्तित्वं सरागस्य लक्षणम् । पञ्चमहाव्रतवं संयमस्य लक्षणम् । सरागस्य संयमः सरागसंयमः । मूलोत्तरगुणसंपल्लोभायुभय. भाज इति यावत् ।
निरवधक्रियानुष्ठानरूपत्वं योगस्य लक्षणम् । सरागसंयमादीनां योगः सरागसंयमयोगः। .
धर्मप्रणिधाने सति मनोवाकायैः क्रोधनिहरूपत्वं, उदितक्रोधस्य कथंचिद् वैफल्यापादनरूपत्वं, क्रोधोदय
१ अनुकम्पा द्विधा, भूतविषया, व्रतिविपया च । तत्र हृदयकम्पनरूपानुकम्पा भूतविषया, व्रतिविषया तु भक्तिरूपानुकम्पा ज्ञेया, अनुकम्पाशब्दस्यात्र भक्तिवाचित्वात्, पूर्वाचायैरपि तथैव प्रतिपादितत्वाच ।