________________
पू२
जैनतत्त्वप्रदीपेकरणरूपत्वं पुस्तकर्मनिर्वर्तनाधिकरणस्य, चित्रकर्मकरणरूपत्वं चित्रकर्मनिर्वर्तनाधिकरणस्य च लक्षणम् ।
एवं लेप्यपत्रच्छेद्यजलकर्मभूमिकर्मादिशस्त्रकर्मादिनिवर्तनानां परिग्रहः कार्यः ।
अथ निक्षेपाधिकरणं प्रणिगयते । तदपि चतुर्विधम्, . प्रत्यवेक्षितनिक्षेपाधिकरण दुष्प्रमार्जितनिक्षेपाधिकरण-देशनिक्षेपाधिकरणा-ऽनामोगिकनिक्षेपाधिकरणभेदात् । .
अप्रत्यवेक्षितभूप्रदेशे निक्षेप्य वस्त्रादिवस्तुनो निक्षे. पकरणरूपत्वमप्रत्यवेक्षितनिक्षेपाधिकरणस्य लक्षणम् ।
दुष्प्रमार्जितभूमदेशे निक्षेप्य वस्त्रादिवस्तुनो दुष्पमाजिंतरजोहरणेनाप्रमार्जितेन वा निक्षेपकरणरूपत्वं दुष्प्रमाजिंतनिक्षेपाधिकरणस्य कक्षणम् ।
अप्रमार्जिते दुष्पमार्जिते वा देशे निक्षेप्य वस्तुनो निक्षेपकरणरूपत्वं देशनिक्षेपाधिकरणस्य लक्षणम् । तथा च एकतः सुप्रमार्जितमन्यतोऽप्रमार्जितं दुष्प्रमार्जितं वा सहसा शक्त्यभावाद् वा तत्र निक्षेपकरणं देशनिक्षेपाधिकरणम् । . अनुपयोगपूर्वकप्रत्यवेक्षिते सुप्रमार्जिते वा देशे निक्षप्य वस्तुनो निक्षेपकरणरूपत्वमनाभोगिकनिक्षेपाधिकर पास्य लक्षणम् !