Book Title: Jain Tattva Pradip
Author(s): Mangalvijay
Publisher: Abhaychandra Bhagwandas Gandhi

View full book text
Previous | Next

Page 50
________________ तृतीयोऽधिकारः। क्रूरकर्मलक्षणाऽविनीतेपूदासीनतालक्षणात्मपरिणामरूपत्वं माध्यस्थ्यस्य लक्षणम् । अपि च, जगत्स्वभावः संवेगार्थ भावनीया, वैराग्यार्थं तु कायस्वभावः । उत्पादव्ययध्रौव्यात्मकत्वं, प्रियविप्रयोगप्सिताऽला. भदारिद्यदौर्भाग्यदौर्मनस्यवन्धनाभियोगाऽसमाधिदुःखसवेदनरूपत्वम्, 'चतसृषु गतिपु जीवा नानाविधदुःखं भुक्त्वा भुक्त्वा परिभ्राम्यन्ति' न च किञ्चिनियतमस्ति, जलवुवुदोपमं च जीवितम् , विद्युत्मकाशवञ्चला विभूति: इत्यादिचिन्तनरूपत्वं वा जगत्स्वभावस्य लक्षणम् । संसारभीरुत्वादिचिन्तनरूपत्वं संवेगस्य लक्षणम् । तथा च जगत्स्वभावचिन्तनं संवेगाय भवति । अनित्यत्वाऽशुचित्वपूतिगन्धित्वनिःसारतादिचिन्तनरूपत्वं कायस्वभावस्य लक्षणम् । सांसारिकविषयवैमुख्यलव्धकपायोपशमस्यबाह्याभ्य. न्तरोपधिषु अनभिष्वङ्गरूपत्वं, सांसारिकभोगविषयकम• रहितत्वं वा वैराग्यस्य लक्षणम् । ॥ इति निरूपिता भावना ॥ अथ च तिलक्षणं कथ्यतेनिःशल्ययुक्तत्वे सति प्राणातिपातादिविरतियुक्तत्वं प्रतिनो लक्षणम् । अत्र च लक्षणघटकशल्यपदार्थो निगद्यते -

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129