________________
तृतीयोऽधिकारः। क्रूरकर्मलक्षणाऽविनीतेपूदासीनतालक्षणात्मपरिणामरूपत्वं माध्यस्थ्यस्य लक्षणम् ।
अपि च, जगत्स्वभावः संवेगार्थ भावनीया, वैराग्यार्थं तु कायस्वभावः ।
उत्पादव्ययध्रौव्यात्मकत्वं, प्रियविप्रयोगप्सिताऽला. भदारिद्यदौर्भाग्यदौर्मनस्यवन्धनाभियोगाऽसमाधिदुःखसवेदनरूपत्वम्, 'चतसृषु गतिपु जीवा नानाविधदुःखं भुक्त्वा भुक्त्वा परिभ्राम्यन्ति' न च किञ्चिनियतमस्ति, जलवुवुदोपमं च जीवितम् , विद्युत्मकाशवञ्चला विभूति: इत्यादिचिन्तनरूपत्वं वा जगत्स्वभावस्य लक्षणम् ।
संसारभीरुत्वादिचिन्तनरूपत्वं संवेगस्य लक्षणम् । तथा च जगत्स्वभावचिन्तनं संवेगाय भवति ।
अनित्यत्वाऽशुचित्वपूतिगन्धित्वनिःसारतादिचिन्तनरूपत्वं कायस्वभावस्य लक्षणम् ।
सांसारिकविषयवैमुख्यलव्धकपायोपशमस्यबाह्याभ्य. न्तरोपधिषु अनभिष्वङ्गरूपत्वं, सांसारिकभोगविषयकम• रहितत्वं वा वैराग्यस्य लक्षणम् ।
॥ इति निरूपिता भावना ॥ अथ च तिलक्षणं कथ्यतेनिःशल्ययुक्तत्वे सति प्राणातिपातादिविरतियुक्तत्वं प्रतिनो लक्षणम् ।
अत्र च लक्षणघटकशल्यपदार्थो निगद्यते -