________________
जैनतत्त्वप्रदीपे
वर्भवति । कार्याकार्यानपेक्षो भवति । परत्र चाशुभा - ङ्गोपाङ्गो लुब्धकोऽयमिति गर्हितचचनो भवति । ततो - महा क्लेशकारणात् परिग्रहाद् व्युपरमः श्रेयान् ।
अथवा हिंसादिषु दुःखमेव केवलं भवतीति प्रतिपक्षभावनया भावनीयम् ।
तत्र दुःखं नामानिष्टसंयोग निमित्तकं शरीरमनः पीडात्मकं व्यापत्तिपर्यवसानमिति । तच्च सच्चानामप्रियं वधवन्धनच्छेदनपाटनादिहेतुकं भवति । ततच हिंसादिपु दुःखमेव भवतीति फलितार्थः ।
किञ्च, तादृशमहाव्रत स्थैर्यार्थ मैत्रीप्रमोदकारुण्यमाध्यस्थ्यलक्षणाश्चतस्रो भावना अपि भावनीयाः ।
कृतकारितानुमतिविशिष्टयोगैरन्येषां बाधानुत्पत्तिविषयकचिन्तनरूपत्वं, 'केनापि पापं न कर्त्तव्यं, कोऽपि दुःखी मा भवतु, सर्वेषां च मुक्तिर्भवतु " इत्य। कारचिन्तनरूपत्वं वा मैत्री भावनाया लक्षणम् ।
सम्यग्ज्ञानतपोऽधिकसाधुजनेषु परात्मोभयकृत पूजाजनितसर्वेन्द्रियाभिव्यक्तमनः प्रहर्षलक्षणप्रमोदरूपत्वम्, सम्यग्ज्ञानादिगुणाधिकसाधुजनेषु प्रसन्नमुखादितयाऽभिव्यज्यमानान्तरिकभक्तिरागरूपत्वं वा प्रमोदभावनाया
७४
लक्षणम् ।
क्लिश्यमानेषु अनुग्रहात्मक परिणामरूपत्वं कारुण्य
·
भावनाया लक्षणम् -