________________
७६
जैनतत्त्वप्रदीपेक्लेशज्वरस्वरूपवत्वे सति संयमस्वरूपभेदित्वं शल्यस्य लक्षणम् ।
तच्च शल्यं त्रिविधम् , मायानिदानमिथ्यादर्शनभेदात् । तत्र च मायाशल्यं प्रसिद्धमस्ति। निदानशल्यं तु निगद्यते
चक्रवर्तिकेशवादीनां सौभाग्यादिगुणसंपदं विलोक्य भूरितपआचरितपरिखेदितमानसोऽध्यवस्यति, 'ममापि अमुष्य तपसःप्रभावादेवंविधा-भोगा भवन्तु' इति चिन्तनलक्षणनिदानकरणरूपत्वं, मौक्तिकसुखप्रतिवन्धपूर्वकसां. सारिकसुखविषयकचिन्तनरूपत्वं वा निदानशल्यस्य लक्षणम् । . तत्त्वार्थाऽश्रद्धानरूपत्वं मिथ्यादर्शनशल्यस्य लक्षणम् । तदभाववत्त्वं निःशल्यस्य लक्षणम् ।
स च व्रती द्वेषा, अगारि-अनगारिभेदात् । तत्राऽगारो नाम वेश्म, तदुपललितारम्भो वा। ___ सम्यग्दर्शनसंपन्नत्वे सति अणुव्रतगुणवतशिक्षात्रतानां मध्येऽन्यतमेन केनचित् सर्वेण वा युक्तत्वं, सम्य- . ग्दर्शनसंपन्नत्वे सति स्थूलपाणातिपातविरतिरूपत्वं, प्रति. पन्नसम्यक्त्वाणुव्रतत्वे सति यतिभ्यः सकाशात् साधु. श्रावकाणां सामाचारीश्रवणशीलत्वं वा अगारिणो लक्षणम् ।
दीक्षादिचूसादारभ्य तपश्चरणशीलत्वे सति सकल