Book Title: Jain Tattva Pradip
Author(s): Mangalvijay
Publisher: Abhaychandra Bhagwandas Gandhi

View full book text
Previous | Next

Page 30
________________ ५० जैनतत्वमदीपे___ गुणवैषम्ये सति सदृशानां गुणद्वयाधिकानां बन्धो भवति । वन्धे च सति समगुणस्य समगुणपरिणामो भवति । हीनस्य चाधिकगुणपरिणामो भवति । तत्र परिणामो नाम भावान्तरापादकत्वं पारिणामिकस्य । तथा च स्वगतस्नेहगुणः कदाचिद् रूक्षतया परिणमति । एवं स्वगतरूक्षगुणः कदाचित् स्निग्धतया परिणमति । गुणसाम्ये तु सदृशानां प्रतिषेधः । इमो तु विसदृशौ । एको द्विगुणस्निग्धोऽन्यो द्विगुणरूक्षः सन् परस्परं वन्धमामोति । स्नहरूक्षयांश्च भिन्नजातीयत्वान्ना. स्ति सादृश्यम् । तत्र गुणानां लक्षणे तु - द्रव्याश्रयत्वे सति निर्गुणत्वं गुणसामान्यस्य लक्ष. णम् । अयं भावः-स्थित्यंशो द्रव्यं, स एव आश्रयो येषां परिणामविशेषाणां गुणानां ते द्रव्याश्रया, अर्थात् परिणामविशेषगुणानां परिणतिकारणरूपं द्रव्यमुच्यते । एषु ज्ञानशुक्लादिगुणेषु नान्ये गुणाः सन्तीति निर्गुणास्त गुणा भवन्तीति च द्रव्यादन्यतिरेके सति तदुपपद्यते । गुण गुणिनोश्च भेदस्तु नास्त्येव सर्वथा, जनमते सककस्य वस्तुनो. भेदाभेदरूपत्वात् । ___ .यदा तु द्रव्यमेव तथा परिणतं ज्ञानाद्यात्मना तदा १ द्विगुणाद्यधिकस्निग्धस्य द्विगुणाद्यधिकस्निग्धेन सह द्विगुणाद्यधिकरूक्षस्य च द्विगुणाद्यधिकक्षेण सह बन्धो भवतीत्यत्र तात्पर्यम्।

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129