________________
५०
जैनतत्वमदीपे___ गुणवैषम्ये सति सदृशानां गुणद्वयाधिकानां बन्धो भवति । वन्धे च सति समगुणस्य समगुणपरिणामो भवति । हीनस्य चाधिकगुणपरिणामो भवति ।
तत्र परिणामो नाम भावान्तरापादकत्वं पारिणामिकस्य । तथा च स्वगतस्नेहगुणः कदाचिद् रूक्षतया परिणमति । एवं स्वगतरूक्षगुणः कदाचित् स्निग्धतया परिणमति । गुणसाम्ये तु सदृशानां प्रतिषेधः । इमो तु विसदृशौ । एको द्विगुणस्निग्धोऽन्यो द्विगुणरूक्षः सन् परस्परं वन्धमामोति । स्नहरूक्षयांश्च भिन्नजातीयत्वान्ना. स्ति सादृश्यम् ।
तत्र गुणानां लक्षणे तु -
द्रव्याश्रयत्वे सति निर्गुणत्वं गुणसामान्यस्य लक्ष. णम् । अयं भावः-स्थित्यंशो द्रव्यं, स एव आश्रयो येषां परिणामविशेषाणां गुणानां ते द्रव्याश्रया, अर्थात् परिणामविशेषगुणानां परिणतिकारणरूपं द्रव्यमुच्यते । एषु ज्ञानशुक्लादिगुणेषु नान्ये गुणाः सन्तीति निर्गुणास्त गुणा भवन्तीति च द्रव्यादन्यतिरेके सति तदुपपद्यते । गुण गुणिनोश्च भेदस्तु नास्त्येव सर्वथा, जनमते सककस्य वस्तुनो. भेदाभेदरूपत्वात् । ___ .यदा तु द्रव्यमेव तथा परिणतं ज्ञानाद्यात्मना तदा
१ द्विगुणाद्यधिकस्निग्धस्य द्विगुणाद्यधिकस्निग्धेन सह द्विगुणाद्यधिकरूक्षस्य च द्विगुणाद्यधिकक्षेण सह बन्धो भवतीत्यत्र तात्पर्यम्।