________________
जैनतत्त्वप्रदीपे
द्रध्यानाश्रयत्वमशुभयोगस्य लक्षणम् ।
पुनरपि स आश्रवो द्वेधा, सांपरायिकेर्यापथिंकदात् । सकाषायिकत्रिविधयोगकृतकर्मागमनरूपत्वं सांपरायिकास्रवस्य लक्षणम् । अथवा संसारपरिभ्रान्तिकारणकत्वे सति यथासंभवं त्रिविधयोगकृतकर्मागमनरूपत्वम् । अकषायकृतत्वैकसमयस्थितिकत्वयोः सतोर्यथासंभवं त्रिविधयोगकृतकर्मागमनरूपत्वमैर्यापथिकास्रत्रस्य ।
अथ सपरायिकाश्रवस्य भेदा उच्यन्ते । इन्द्रियकपायाव्रतक्रियाः सांपरायिकाश्रवस्य भेदाः । तत्रेन्द्रियायुक्तानि । कषायास्तु वक्ष्यमाणाः । इतरभेदास्तु उच्यन्ते । हिंसादीन्यत्रतानि सकलकर्मजालमूलानि । तत्मवृत्तौ आश्रवेषु प्रवृत्तिस्तनिवृत्तौ तु निवृत्तिः । तेषां हिंसाधत्रतानां लक्षणं तु अग्रे वक्ष्ये ।
·
क्रियास्तु पञ्चविंशतिधा, सम्यक्त्वादिक्रियाभेदात् । सम्यक्त्वं चात्र शुद्धदलिकानुभवरूपं ज्ञेयम् ।
४४
.
साच प्रशम- संवेग - निर्वेदा ऽनुकम्पा ऽऽस्तिक्यलक्ष णा जीवादिपदार्थविषया श्रद्धा जिनसिद्धगुरूपाध्याययतिजन योग्य पुष्पधूप- प्रदीप चामर - आतपत्र नमस्करणादिवखपात्रान्नपानशय्यादानाद्यनेकविधवैयावृत्त्याभिव्यङ्ग्या सम्यक्त्व सद्भाव संवर्धन पदवीभूता सद्वेद्यबन्धहेतुभूता देवादिजन्मकारणरूपा सम्यक्त्वक्रिया । अतो विपरीता मिथ्याक्रिया ।
"
-