________________
द्वितीयोऽधिकारः। विशिष्टाभिधानार्पितत्वे सति सम्यवहारसाधकत्वम् । अथवा . शब्दपरिमापितव्यवहाररूपत्वम् । मुख्यव्यवहाररूपत्वं वा।
पूर्वोक्तलक्षणाद् विपरीतरूपत्वमर्पितस्य लक्षणम् । अथवा गौणव्यक्वहाररूपत्वम् ।।
अथ परस्परं विश्लिष्टांनां परमाणूनां वन्धप्रतिपादनाय प्रकारः प्रदश्यते
स्निग्धरूक्षत्वलक्षणगुणविशिष्टानां परमाणूनां वन्धो भवति । तत्र च. स्निग्धरूक्षौ स्पर्शविशेषौ । अत्यल्पस्निग्धगुणयुक्तानां परमाणूनामत्यल्परूक्षगुणयुक्तंपरमाणुभिः सह परस्परं वन्धो न भवति-एकगुणरूक्षाणां परमाणुनामेकगुणस्निग्धपरमाणुभिः सह वन्धो न भवतीत्यत्र तात्पर्यम् ।
एवं तुल्यगुणस्निग्यस्य तुल्यगुणस्निग्धेन सह, एवं तुल्यगुणरुक्षस्य तुल्यगुणरूक्षेण सहापिबन्धो न भवति । तथा च तुल्यगुणस्निग्धस्य तुल्यगुणन्निग्धेन सह वन्धो नास्ति । कुतः ? परस्पर परिणतरूपशक्त्यभावात् , तुल्यवलांवशि
मल्लद्वयान्योन्याभिघातवत् । एक्मकगुणस्निग्धोऽपि नैकगुणस्निग्धैः सह वन्धमामोति । तथा द्विगुणादिस्निग्धाः परमाणवो द्विगुणादिस्निग्धैः समगुणैरनन्तपर्यवसानैः स्निग्धगुणविशिष्टपरमाणुभिरपि न वध्यते । एवं रूक्षेपि बातव्यम् ।